SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० भट्टानन्तकीर्तिप्रणीता तस्माद्यद्विवादास्पदीभूतं न (2) तत्साध्यं । न तद्विवादास्पदमिति तत्र वर्तमानो हेतुरनर्थकः स्यात् इति ॥ किंच सूक्ष्मादयोऽर्थाः कस्यचित्प्रत्यक्षा इत्यत्र अर्हतोऽनहतो वा ज्ञातुरनिर्दिष्टत्वात् न्यूनः पक्षः स्यात् । अथानर्हतः सूक्ष्मादिप्रत्यक्षत्वं साध्यते तदाऽर्हद्वाक्यप्रमाणत्वे तज्ज्ञानं कोपयुज्यते । अर्हतश्चत्सोऽपि श्रुत्याऽर्थेन वा गम्यते। यतः पक्षो न न्यूनः स्यात् । अथ सूक्ष्मादयोऽर्हतः प्रत्यक्षा इति पक्षो विशिष्यते । तथापि नैष पक्षः पूर्वस्मादविशिष्टपक्षाद्भिद्यते हेतोः सकाशात्तथाविधस्य पक्षस्यासिद्धेः । न हि विशिष्ट पक्षोपादानमात्रेणैव हेतुर्विशिष्टं पक्षं साधयति । पक्षांतरेऽप्यस्य हेतोरविशिष्टत्वात् । तथाहि सूक्ष्मादयो बुद्धस्य प्रत्यक्षा ग्रहोपरागाद्युपदेशकरणात् प्रमेयत्वात्सत्त्वादनुमेयत्वादिति पक्षश्चाप्रसिद्धविशेषणः स्यात् । तस्मादेते हेतवो न विशिष्टपक्षविषया नाप्यविशिष्टपक्षविषया इत्यकिंचित्कराः ॥ तथाचोक्तं भट्टकुमारिलेन यत्सत्यं नाम लोकेषु प्रत्यक्षं तद्धि कस्यचित् । प्रमेयज्ञेयवस्तुत्वैर्दधिरूपरसादिवत् ॥ १॥ ज्ञातयंत्राप्यनिर्दिष्टे पक्षो न्यूनत्वमापतेत् ।। यदि बुद्धातिरिक्तोऽन्यः कश्चित्सर्वज्ञतां गतः ॥२॥ बुद्धवाक्यप्रमाणत्वे तज्ज्ञान कोपयुज्यते ॥ सर्वज्ञो यस्त्वभिप्रेतो न श्रुत्याऽर्थेन वाऽपि सः ॥३।। For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy