SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १३९ यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ ३ ॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे ॥ ४ ॥ ततः स्थितमेतत् सूक्ष्मादिपदार्थप्रत्यक्षत्वलक्षणः प्रतिज्ञार्थोऽनर्थक इति ॥ न चैतत्साध्यं साधनमर्हति अविवादास्पदत्वात् । विवादास्पदीभूते हि साध्ये साधनाय हेतुः प्रवर्तते । न च सूक्ष्माद्यर्थः कस्यचित्प्रत्यक्ष इत्येतत्साध्य विवादगोचरापन्नं परैस्तस्यानिराकरणात् । यदेव हि धर्मे चोदनैव प्रमाणमित्यस्याः प्रतिज्ञायाः प्रतिद्वंद्वि तदेव तैर्निराक्रियते नान्यत् । न च सूक्ष्मादिप्रत्यक्षत्वमेतस्याः प्रतिद्वंद्वि किं तु धर्मादिप्रत्यक्षत्वमतस्तदेव तैर्निषिध्यते । न सूक्ष्मादिप्रत्यक्षत्वं । तथाचोक्तं धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोपयुज्यते ॥ सर्वमन्यद्विजानँस्तु पुरुषः केन वार्यते ॥१॥ सर्वप्रमातृसंबंधिप्रत्यक्षादिनिवारणात् ॥ केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥ २ ॥ एतावतैव मीमांसा पक्षे सिद्धेऽपि यैः पुनः ॥ सर्वज्ञवारणे यत्नस्तैः कृतं मृतमारणं ॥ ३ ॥ येऽपि च च्छिन्नमूलत्वात्सर्वज्ञत्वे हते सति ॥ सर्वज्ञान् पुरुषानाहुस्तैः कृतं तुषकंडनं ॥ ४ ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy