________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८ भट्टानन्तकीर्तिप्रणीता
स सर्वज्ञफले प्राप्ते सर्वज्ञत्वं न वांछति ॥ १२ ॥ जरायुजांडजोद्भेदसंस्वेदजचतुर्विधे ॥ भूतग्रामेऽल्पकज्ञोऽपि सर्वज्ञफलमश्नुते ॥ १३ ॥ पृथिव्यादिमहाभूतसंक्षेपज्ञश्च यो नरः ॥ स विस्तारानभिज्ञोऽपि सर्वज्ञान्न विशिष्यते ।। १४ ॥ भूमेर्य एकदेशज्ञो भूमिकार्येषु वर्तते ॥ सप्तद्वीपमहीज्ञानं क नु तस्योपयुज्यते ॥ १५ ॥ तथाऽल्पेनैव तोयेन सिद्धतोयप्रयोजनः ॥ तोयांतराण्यविज्ञाय नान्यदोषेण युज्यते ॥ १६ ॥ वह्वेश्चानंतभेदस्य ज्ञातैरौपासनादिभिः ।। पंचभिः कृतकार्यत्वादन्याज्ञानमदूषणं ॥ १७ ॥ शरीरांतर्गतस्यैव वायोः प्राणादिपंचके ॥ ज्ञाते शेषानभिज्ञत्वं नोपालंभाय जायते ॥ १८ ॥ व्योम्नश्च पृथुनः पारमज्ञात्वाऽप्येकदेशवित् ।।
नैव व्योमानभिज्ञत्वव्यपदेशेन दुष्यति ॥ १९ ।। धर्मकीर्तिनाऽप्युक्तं
ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।। अज्ञोपदेशकरणे विप्रलंभनशंकिमिः ॥ १ ॥ . तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यतां ॥ . कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ २ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ॥
For Private And Personal Use Only