________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहत्सर्वज्ञसिद्धिः - १३७ यथा च चक्षुषा सर्वान् भावान् वेत्तीति निष्फलं । सर्व प्रत्यक्षदर्शित्वप्रतिज्ञाऽप्यफला तथा ॥ २ ॥ स्वधर्माधर्ममात्रज्ञसाधनप्रतिषेधयोः।। तत्प्रणीतागमग्राह्यहेयत्वे हि प्रसिध्द्यतः ॥ ३ ॥ तत्र सर्वजगत्सूक्ष्मभेदज्ञत्वप्रसाधने । अस्थाने क्लिश्यते लोकः संरंभाद् ग्रंथवादयोः ॥ ४ ॥ एतच्च फलवज्ज्ञानं यावद्धर्मादिगोचरं ॥ न तु वृक्षादिभितैिरस्ति किंचित्प्रयोजनं ॥५॥ क्रत्वर्थाः पुरुषार्थाश्च यावंतः खदिरादयः ॥ सर्ववृक्षज्ञता तावत्तावत्स्वेव समाप्यते ॥ ६ ॥ लताः सोमगुलूच्याद्याः काश्चिद्धर्मार्थहेतवः ॥ सिद्धास्तज्ज्ञानमात्रेण लतासर्वज्ञताऽपि नः ।। ७ ॥ व्रीहिश्यामाकनीवारग्रामारण्यौषधीरपि ॥ ज्ञात्वा भवति सर्वज्ञो नानर्थकशतान्यपि ॥ ८ ॥ तथा कतिपयेष्वेव यज्ञांगेषु तृणेष्वपि ॥ दर्भादिषु च बुद्धेषु तृणसर्वज्ञतेष्यते ॥ ९॥ तृणौषधिलतावृक्षजातयोऽन्याः सहस्रशः ॥ विविक्ता नोपयुज्यंते तदज्ञानेन नाज्ञता ॥ १० ॥ यत्रापि चोपयुज्यंते व्यक्तयो जातिलक्षिताः ॥ जातिज्ञानोपसंहारात्तत्रापि व्याप्तिरस्ति नः ॥ ११ ॥ अतश्च व्यक्तिभेदानामनभिज्ञोऽपि यो नरः ॥
For Private And Personal Use Only