________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६ भट्टानन्तकीर्तिप्रणीता
बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसंभवः ॥ उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ २ ॥ येऽपि मन्वादयः सिद्धाः प्राधान्येन त्रयीविदां ॥
त्रयीविदाश्रितग्रंथास्ते वेदप्रभवोक्तय इति ॥ ३ ॥ तदेवं सर्वज्ञविषयसदुपलंभकप्रमाणपंचकव्यावृत्तेरभावप्रमाणस्यैव प्रवृत्तिर्युक्ता। तथाचोक्तं
प्रमाणपंचकं यत्र वस्तुरूपे न जायते ॥
वस्तुसत्तावबोधार्थ तत्राभावप्रमाणतेति ॥ १ ॥ तस्मास्थितमेतदभावप्रमाणविरुद्धं कस्यचित्सूक्ष्मादिप्रत्यक्षत्वमिति । तथोपमानविरुद्धं चैतत् । तथाचोक्तं--
नरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान् ।
तत्सादृश्योपमानेन शेषासावश्यसाधनं ॥ १ ॥ इति ।। तस्मादनुमानाभावोपमानविरुद्धार्थविषयत्वादसंभवदर्थविषयेयं प्रतिज्ञेति स्थितमेतत् ॥ भवतु वा संभवदर्थविषया प्रतिज्ञा, तथापि तत्प्रतिपाद्योऽर्थो ऽनर्थकः। पुरुषार्थानुपयोगात् काकदंतपरीक्षावत्। कामिन्याः पंढरूपवैरूप्यपरीक्षावद्वेति ॥ तथाचोक्तं
समस्तावयवव्यक्तिविस्तरज्ञानसाधनं । काकदंतपरीक्षावत् क्रियमाणमनर्थकं ॥ १ ॥
For Private And Personal Use Only