SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः १३५ न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः ॥२॥ अनादेरागमस्यार्थो न च सर्वज्ञ आगमात् ॥ कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ ३ ॥ अथ तद्वचनेनैव सर्वज्ञोऽन्यैः प्रतीयते ॥ प्रकल्प्यते कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥ ४ ॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ॥ कथं तदुभयं सिध्येत् सिद्धमूलांतराहते ॥ ५ ॥ असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ॥ सर्वज्ञमवगच्छंतः स्ववाक्यात्किं न जानते ॥ ६ ॥ नाप्युपमानात्सर्वज्ञप्रतिपत्तिः । सर्वज्ञसदृशस्य जगति कस्यचिदनुपलब्धेः ॥ तथाचोक्तं-- सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति ॥ उपमानेन सर्वज्ञं जानीयाम ततो वयमिति ॥ १॥ नापि बहुजनपरिगृहीतधर्माधर्मान्यथानुपपत्त्या धर्माधर्मविषयज्ञानसिद्धेपत्त्या सर्वज्ञसिद्धिः । धर्माधर्मोपदेशस्यान्यथाप्युपपद्यमानत्वात् । तथाहि धर्माधर्मोपदेशो बुद्धादीनामवेदज्ञानां व्यामोहादपि भवति । वेदज्ञानां तु मन्वादीनां वेदादपीति । तथाचोक्तं- . उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः ॥ अन्यथा नोपपद्येत सर्वज्ञो यदि नाभवत् ॥ १॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy