________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टामन्तकीर्तिप्रणीता रेण कर्मार्थवादकत्वं । तात्पर्येण सर्वज्ञप्रतिपादकत्वे आगमतोऽर्थस्य प्रतिपादनादनित्यत्वं स्यात् । तत्रापि दोष वक्ष्यामः । नापि प्रमाणांतरेणानवबोधित. सर्वज्ञो नित्येनागमेनानूद्यत इति युक्तं- नित्यत्वे चागमस्येष्टे न किंचित्सर्वज्ञकल्पनया । सर्वज्ञोऽपि हि धर्माधर्मप्रतिपत्तये मृग्यते न व्यसनितया । सा च धर्माधर्मप्रतिपत्तिः वेदादेवास्तु , यतो वेदस्य सर्वज्ञप्रतिपादनाद्वरं धर्माधर्मप्रतिपादकत्वं । अन्यथा वेदात्सर्वज्ञप्रतिपत्तिः ततो धर्माधर्मावबोध इति पारंपर्यपरिश्रमः स्यात् । तस्माद्वरं वेदाद्धर्माधर्मयोरेव साक्षात्प्रतिपत्तिरभ्युपगता न सर्वज्ञस्य । वेदात्सर्वज्ञप्रतिपत्तावपि धर्माधर्मप्रतिपत्तिमंतरेण पुरुषार्थसिद्धेरभावात् । धर्माधर्मप्रतिपत्तौ तु सर्वज्ञप्रतिपत्तिमंतरेणाप्यर्थसिद्धेर्भावात् । ततो न नित्यादागमात्सर्वज्ञसिद्धिर्नाप्यनित्यात् । तेनैव प्रणीतात्सर्वज्ञप्रतिपत्तौ तत्प्रणीतत्वेन आगमप्रामाण्यनिश्चयो निश्चितप्रामाण्याच्चागमात्सर्वज्ञो गम्यत इतीतरेतराश्रयत्वप्रसंगात् । नाप्यसर्वज्ञप्रणीतात्सर्वज्ञसिद्धिः तथाविधस्य प्रामाण्यानुपपत्तेः । अप्रमाणादपि ततः प्रतिपत्तौ स्ववाक्यादेव किं न तत्प्रतिपत्तिर्विशेषाभावात् । तथाचोक्तं
न चागमविधिः कश्चिन्नित्यः सर्वज्ञबाधकः ॥ न च मंत्रार्थवादानां तात्पर्यमवकल्प्यते ॥ १॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते ॥
For Private And Personal Use Only