________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
बृहत्सर्वज्ञसिद्धिः दशहस्तांतरे व्योम्नि यो नामोत्पलुत्य गच्छति । न योजनमसौ गंतुं शक्तोऽभ्यासशतैरपि ॥ १ ॥ तस्मादतिशयज्ञानैरतिदूरगतैरपि । किंचिदेवाधिकं ज्ञातुं शक्यते न त्वतींद्रियमिति ॥२॥ ततः स्थितमेतदनुमानविरुद्धं कस्यचित्सूक्ष्मादिप्रत्यक्षत्वमिति ।
अभावप्रमाणविरुद्धं च । सूक्ष्मादिपदार्थसाक्षात्कारिणः सदुपलंभकप्रमाणपंचकाविषयत्वात् । तथाहि- सूक्ष्मादिपदार्थपरिच्छेदकस्तावदस्मदादिभिर्वर्तमाने काले चक्षुरादीभिनोपलभ्यते । नाप्यनुमीयते हेत्वभावात् । तथाचोक्तंसर्वज्ञो दृश्यते तावन्नेदानीं चक्षुरादिभिः ।
दृष्टो न चैकदेशोऽस्ति लिंग वा योऽनुमापयेत् ॥१॥ नाप्यागमेन नित्येनानित्येन वा गम्यते । तथाहि-- न तावनित्येन गम्यते सर्वज्ञप्रतिपादकस्य नित्यस्यागमस्याभावात् । ननु हिरण्यगर्भ प्रस्तुत्य सर्वज्ञ इत्येवं श्रुतत्वाद्धिरण्यगर्भः सर्वज्ञ इत्येतन्नित्यादागमात्प्रतीयते इति । तदप्ययुक्तं न हि सर्वज्ञप्रस्तावे नित्य आगमस्तात्पर्येण सर्वज्ञप्रतिपादकः । प्रकृतानुपयोगात् । किंतु हिरण्यगर्भकर्मविधिपरे वाक्येऽन्यस्यासंभवात् . सर्वज्ञत्वेन देवतास्तवनद्वा
For Private And Personal Use Only