SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० भट्टानन्तकीर्तिप्रणीता बृहत्सर्वज्ञसिद्धिः सूक्ष्मांतरितदूरार्थाः कस्यचित्प्रत्यक्षाः अनुपदेशालिंगानन्वयव्यतिरेकपूर्वकाविसंवादिनष्टमुष्टिींचंतालाभालाभसुखदुःख ग्रहोपरागाद्युपदेशकरणान्यथानुपपत्तेः । तथाहि- नष्टं देशांतरितं कालांतरितं द्रव्यांतरितं वा स्यात् । मुष्टिस्थं वस्तु द्रव्यांतरितं । चिंता सूक्ष्मस्वभावा । लाभालाभौ कालांतरितौ। तथा सुखदुःखे । ग्रहोपरागादिः कालांतरितः। मंत्रौषधिशक्तयः सूक्ष्मस्वभावाः । तदेषां सूक्ष्मांतरितदूरस्वभावानामर्थानां यथोक्तस्योपदेशस्य करणं तत्साक्षात्करणमंतरेणानुपपन्नं । नन्वसंभवदर्थविषयेयं प्रतिज्ञा प्रमाणांतरविरुद्धार्थप्रतिपादकत्वात् । वंध्यास्तनंधयगुणव्यावर्णनादिवत् । तत्रानुमानविरुद्धा तावदियं प्रतिज्ञा विवादास्पदीभूते देशे काले च रसादयोऽत्रत्येदानींतनरसादिग्राहकसजातीयप्रमाणग्राह्या रसादिशब्दवाच्यत्वात् । अत्रेदानीतनप्रत्यक्षवदिति । तथाहि यज्जातीयैश्चक्षुरादिभिर्जनितैः प्रमाणैर्यज्जीतायानामविप्रकर्षिणां प्रतिनियतानां रूपाद्यर्थानामिदानीमत्र च साक्षात्करणं दृष्टं तथा देशांतरे कालांतरे ऽपि तथाविधैरेव प्रमाणैस्तथाविधानामवार्थानां साक्षात्करणमभूद्भवति भविष्यति चेत्यध्यवस्यामः । नेंद्रियांतरेण । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy