SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहत्सर्वज्ञसिद्धिः नापींद्रियमंतरेण रूपाद्यर्थानां दर्शनं । नापि विप्रकर्षिणामिद्रियेणेंद्रियमंतरण वा दर्शनमभूद्भवति भविष्यति चेति युक्तं । अन्यथा दृष्टहानेरदृष्टकल्पनायाश्च प्रसंगात् । तथाचोक्तं यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनं ।। दृष्टं संप्रति लोकस्य तथा कालांतरेऽप्यभूदिति ॥१॥ ननु गृध्रवराहपिपीलिकादीनां चक्षुःश्रोत्रघ्राणादिषु दूरस्थितरूपशब्दगंधादिग्रहणलक्षणातिशयदर्शनात् क्वचित्पुरुषविशेषे चक्षुरादीनां विषयांतरग्रहणलक्षणोऽप्यतिशयः संभाव्येत। प्रज्ञामेधादिभिश्च नराणामतिशयदर्शनात् कस्यचिदतींद्रियार्थद्रष्टुत्वेनाप्यतिशयः स्यादिति । अत्रोच्यते । योऽपि गृध्रादिषु चक्षुरादीनामतिशयो दृष्टः सोऽपि स्वार्थापरित्यागेन दूरसूक्ष्मादिदृष्टावतिशयो दृष्टो न रूपादौ श्रोत्रादिवृत्त्या । तथा बुद्धादिचक्षुरादेरपि स्वार्थापरित्यागेनैवातिशयः स्यात् । तथाचोक्तं यत्राप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् ॥ दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तित इति ॥१॥ यश्च प्रज्ञामेधादिभिर्नराणामतिशयो दृष्टः सोऽपि नियतविषयः । स्तोकस्तोकांतरत्वेनैवातिशयो दृष्टो न विषयांतरे । नापि प्रकर्षपर्यंतगमनेन । उक्तं च येऽपि सातिशया दृष्टाः प्रज्ञामेधावलैनराः । स्तोकस्तोकांतरत्वेन नत्वतींद्रियदर्शनात् ॥१॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy