SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः १२७ र्थानां ग्रहणं स्यान्नातीतानागतानामभावरूपत्वादिति चेन्न । वर्तमानकालसंबंधितयाऽभावेऽपि अतीतानागतकालसंबंधितया भावात् । तत्काल संबंधितयाऽप्यभावे वर्तमान संबंधि - तयाऽप्यभाव एव स्यात् । वर्तमाना एव हि भावाः कालांतरापेक्षयाऽतीतानागतकालसंबंधिनो भवंति । अस्तु नाम तथाभावस्तथापि स्वज्ञानकालासंभविनोऽर्थस्य कथं ग्रहणमिति चेन्न । इंद्रियजनितज्ञानग्राह्यस्यायं न्यायो नान्यस्य । अन्यथा कथं चोदना त्रिकालविषयमर्थं पुरुषस्य प्रतिपादयतीत्यवितथं स्यात् । आगमद्वारेणास्त्येव त्रिकाल - विषयार्थप्रतीतिर्न साक्षादनुपलब्धेरित्यपि वार्तं । नष्टमुष्टिग्रहो - परागादीनां भूतभवद्भव्यरूपाणामुपदेशान्यथानुपपत्त्या साक्षात्प्रतीतिसिद्धेः । ननु यज्जातीयप्रत्यक्षता च स्यात् अतत्प्रत्यक्षता च विरोधाभावात् अतः संदिग्धविपक्षव्यावृत्तिको हेतुः स्यादिति चेत्तर्हि घटसमानजातीयभूतलप्रत्यक्षत्वेऽपि घटो न प्रत्यक्ष इति एकज्ञानसंसर्गस्य घटभूतलयोरभावान्न केवलभूतलोपलब्ध्या घटाभावसिद्धिः स्यात् । अभावप्रमाणात् तदभावसिद्धिकज्ञानसंसर्गिपदार्थोपलंभलक्षणादनुपलंभादिति चेन्न । सर्वसंबधिनः प्रमाणपंचकाभावलक्षणाभावप्रमाणस्यासिद्धत्वात् । आत्मसंबंधिनः प्रमाणपंचकाभावलक्षणाभावप्रमाणस्य प्रत्यात्मनियतचेतोवृत्तिविशेषेणानैकांतिकत्त्वात् ज्ञानमात्रनिर्मुक्तात्मरूपा | For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy