________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६ भट्टानन्तकीर्तिप्रणीता नीयत्वेनोपन्यसनीयं तार्णपार्णयोधूमस्वलक्षणयोर्नानादेशस्थयोरत्यंतविलक्षणत्वेनैकसामान्यायोगात् । तथाभूतयोरपि धूमस्वलक्षणयोरेकसामान्याभ्युपगमेऽन्यत्रापि को विशेषो येन यज्जातीयप्रत्यक्षतासामान्यं हेतुत्वेनोपादीयमानं न क्षम्यते ॥
___ ननु तथापि सविशेषणस्य यज्जातीयप्रत्यक्षतासामान्यस्य पक्षधर्मतयोपसंहारादसाधारणत्वमिति चेन्न । व्यक्तिसंबंधकथनमात्रमेतत् न तावता साधारणत्वं । अन्यथाऽस्ति चेह धूम इत्यत्रापि प्रदेशविशेषणस्यान्यत्रानुवृत्तिप्रसंगः । तत्रायोगव्यवच्छेदेन विशेषणमिहापि समानं । देशाद्यविप्रकृष्टतया घटसमानजातीयभूतलप्रत्यक्षतायां घटस्यापि प्रत्यक्षतानियमे शब्दश्राविणोंऽधस्यापि संनिहितरूपदर्शनप्रसंगस्तथासाधर्म्यात् । अन्यथा भूतलदर्शिनोऽपि घटप्रत्यक्षतानियमोऽपि मा भूत् । विप्रकृष्टतया वा साधयेऽपि धर्माधर्मादिप्रत्यक्षता नष्टमुष्ट्यादिप्रत्यक्षतायामपि न स्यादिति चेन्न रूपादौ हि प्रतिनियतमिंद्रियं सहकारि प्रतिपत्ती, अंधस्य च रूपप्रतिपत्तिनिमित्तेंद्रियविरहान्न रूपादिदर्शनमिति युक्तं । घटभूतलयोस्त्वेकेंद्रियजनितज्ञानग्राह्यत्वात् । भूतलदर्शिनो न घटदर्शनं न्याय्यं । विप्रकृष्टानामिंद्रियमंतरेण प्रतिपत्तेर्नियामकाभावात् । नष्टमुष्ट्यादिसाक्षात्कारिणो धर्माधर्माद्यप्रत्यक्षीकरणमप्ययुक्तं । भवतु नाम धर्माधर्माद्यशेषवस्तुसाक्षात्करणं तथापि वर्तमानकालभाविनामेवा
For Private And Personal Use Only