SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघु सर्वज्ञसिद्धिः चकसंबंधाज्ञानात् । तस्मात्कस्यचिदनुपदेशालिंगानन्वयव्यतिरेकाविसंवादिवचनानुक्रमकारित्वं सिद्धं । एतेन धर्म्यसिद्धिनिरस्ता ततो नासिद्धिर्मूलहेतोः । For Private And Personal Use Only १२५ अवधिज्ञानिनो धर्माधर्माकाशकालादिप्रत्यक्षताभावेऽपि नष्टमुट्यादीनां प्रत्यक्षकत्वादनैकांतिको हेतुरिति चेन्न असत्यावर इति विशेषणात् । आवरणाभावः कथं सिद्ध इति चेद्भवतोऽपि कथं धर्माधर्मादिप्रत्यक्षताभावसिद्धिः । अस्मदभ्युपगमादितिचेत्तत एवावरणाभावसिद्धिरपि किं न स्यात् । ननु धर्माधर्मादिसजातीयनष्टमुष्ट्यादिप्रत्यक्षताया दृष्टांतेऽभावात्साधनशून्यो दृष्टांतः । घटसमानजातीय भूतलप्रत्यक्षताऽपि हेतुत्वेनोपादीयमाना न कंचनार्थं साधयति । घटप्रत्यक्षताया एव ततस्तस्य सिद्धेस्तत्र च विवादाभावात् । उभयत्र यज्जातीयप्रत्यक्षतासामान्यमपि न हेतुरत्यंतविलक्षणयोस्तयोस्तल्लक्षणसामान्यानवस्थानात् । तथालेका देशकालस्वभावाविप्रकृष्टत्वेन घटसमानजातीय भूतलस्यावग्दर्शिप्रत्यक्षताव्यक्तिः अन्या तु स्वभावादिविप्रकृष्टतया धर्माधर्मादिसजातीयनष्टमुष्ट्या देरतींद्रियार्थदर्शिप्रत्यक्षता । तयोश्चात्यंतविलक्षणयोर्नैकं सामान्यमित्यनालोचिताभिधानं । साधनांतरेऽप्यस्य दूषणस्याविशिष्टत्वात् । तथाहि साध्यधर्मिसंबंधिनो धूमस्वलक्षणस्य हेतुत्वे साधनशून्यो दृष्टांतो महानसादिसंबंधिनोऽसिद्धेः । नापि धूमसामान्यमुभयसंबंधि साध •
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy