SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ भट्टानन्तकीर्तिप्रणीता . मात् प्रामाण्यं न स्यात् । न ब्रूमोऽपौरुषेयत्वादेव प्रामाण्यमपि तु प्रामाण्यमेवापौरुषेयत्वादिति चेत्तर्हि नीलोत्पलादिषु दहनादीनामपौरुषेयाणां न मिथ्याज्ञानहेतुता स्यात् । ज्योतिःशास्त्रप्रवाहस्य चानादितया प्रामाण्ये वेदेऽपि तथैवास्तु प्रामाण्यं किमपौरुषेयतासाधनोपन्यासायासेन । अन्यत्र कर्तुः श्रवणात्पौरुषेयता युक्ता नात्र कर्तुरश्रवणादिति चेन्न । अत्रापि कर्तुः श्रवणात् । तन्मिथ्यात्वमन्यत्रापि समान । पराभ्युपगमादन्यत्र पौरुषेयत्वमत्रापि किं न स्यात् । ज्योतिःशास्त्रप्रवाहस्य चानादित्वे प्रायेण दुष्टाशयत्वादुपदेष्टणां स्यादपि तस्योच्छेदः । दृश्यते ह्यादिमतामपि नेपथ्यव्यवहाराणां बालक्रीडादीनामन्येषां वा समुच्छेदः । किमुतादीनां । तस्य चोद्धरणमसाधारणपुरुषादेव युक्तं । नापि तदेकदेशनिबंधनेयं वचनानुक्रमविशेषपरंपरा । तस्यैवापौरु यस्याभावात् । नाप्यन्वयव्यतिरेकदर्शनबलप्रवृता। चूतमंजर्यादेमधुमांस इव ग्रहोपरागादीनां दिक्प्रमाणफदल (?) कालाकाशादिषु नियमाभावात् । न लिंगविशेषभाविन्यपीयं । तल्लिंगस्य हि प्राकृतपुरुषदर्शनविषयत्वेऽस्मदादीनामनुपदेशात्तत्प्रतीतिः स्यात् । अतींद्रियत्वे तस्योपदेशमंतरेण तस्य प्रतिपत्त्ययोगात् तदुपदेष्टुरतींद्रियार्थदर्शित्वं स्यात् । न चानुपदेशालिंगानन्वयव्यतिरेकेयं विसंवादिनी ग्रहोपरागादिषु संवादोपलंभात् । क्वचिद्विसंवादो वाच्यवा For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy