SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः १२३ नर्ते स आगमात्सिध्छन्न च तेनागमो विना ।। दृष्टांतोऽपि न तस्यान्यो नृषु कश्चित्प्रतीयते ॥ १ ॥ इत्यत्रापि ॥ न तावत्कारकपक्षे बीजांकुरवदितरेतराश्रयत्वमनादित्वात्तत्प्रवाहस्य । नापि ज्ञप्तिपशे- सर्वज्ञस्यानुमानाप्रतिपत्तेः। आगमस्य स्वतः प्रामाण्यात् । अप्रामाण्यनिवृत्तिः कथमिति चेत् कथं वेदे । अपौरुषेयत्वादिति चेन्नापौरुषेयाणामपि नीलोत्पलादिषु दहनादीनामन्यथाप्रतिपत्तिहेतुत्वदर्शनात् । अभावप्रामाण्यादिति चेदत एवात्रापि स्यादिति समानं । तदेवं सर्वज्ञाभावस्यासिद्धिः । अतींद्रियार्थज्ञातुरभावादन्यस्याप्यनिष्टिः । सिद्ध एव पुरषाभाव इत्येतदसारं । पौरुषेय एवायं नष्टमुष्ट्यादिवचनरचनानुक्रमविशेषः केवलमनादिरुपदेशपरंपरयाऽतींद्रियार्थज्ञातुरभावेऽपि प्रमाणभूतः प्रबंधेनानुवर्तते इति चेदन्योऽपि वचनानुक्रमविशेषः प्रबंधेनैवं प्रवर्तमानः प्रमाणभूतः किं न स्यात् । तदनुसारिभिरेवासावतींद्रियज्ञानपूर्वकत्वेनाभ्युपगतः । तज्ज्ञानस्य चाभावात् उपदेशपरंपरायाश्वानभ्युपगमान्न प्रमाणमिति चेत् किं पराभ्युपगमो भवतः प्रमाणं ? अन्यथा नष्टमुष्ट्यादिप्रतिपादकागमोऽपि न प्रमाणं । तस्यापि तैरेव तथाऽभ्युपगमात् । अविसंवादादस्य प्रामाण्यं नान्यस्याविसंवादाभावादिति चेन्न तर्हि वेदः प्रमाणं अविसंवादाभावात् । अपौरुषेयत्वादस्य प्रामाण्ये ज्योतिर्ज्ञानादेः पौरुषेयत्वाभ्युपग For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy