________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
भट्टानन्तकीर्तिप्रणीता तद्वाक्यानां प्रमाणत्वं मूढो ज्ञानेऽन्यवाक्यवत् ॥ ३ ॥ इत्येतदन्यत्रापि समानं ॥
सार्वश्यमहदादीनामिति सत्यं वचो मम ॥ मदुक्तत्वाद्यथैवामिरुष्णो भास्वर इत्यपि ॥ १ ॥ प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य च ॥ . सद्भावसाधने शक्तं को नु तं वारयिष्यति ॥ २ ॥ सर्वज्ञनास्तिता तावत् दृश्यते नास्मदादिभिः ॥ न च साधनवच्छक्या सर्वज्ञस्य निराकृतिः ।। ३ ॥ सर्वज्ञाभावसिद्धिर्न श्रुतेरन्योन्यसंश्रयात् ॥ नरांतरप्रणीतस्य प्रामाण्यं गम्यते कथं ॥ ४ ॥ अथवाऽस्तु सर्वज्ञाभावस्तथापि ~
सर्वत्र सर्वदा कश्चित् सर्वज्ञो नेति नास्तिकैः ।। सर्वात्मज्ञानविज्ञानरहितैर्गम्यते कथं ॥ १ ॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ॥ य एव स्यादसर्वज्ञः सोऽसर्वज्ञं न बुध्यति ॥ २ ॥ सर्वज्ञनास्तिता येन न ज्ञाता नैव तं प्रति ॥ प्रामाण्यं वेदवाक्यानामन्ययोगविवेकतः ॥ ३ ॥ सर्वज्ञाभावस्यासिध्दौ धर्मे चोदनैव प्रमाणमित्यवधारणस्यानुपपत्तेः । नाप्यनुमानात्सर्वज्ञाभावसिद्धिः तस्यान्ययोगव्यवच्छेदेन प्रामाण्यावधारणं तस्य निरस्तत्वात् ॥
For Private And Personal Use Only