________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघु सर्वज्ञसिद्धिः
१२१
ज्ञानस्य लंघनादिवदभ्यासशतैरपि स्वभावातिक्रमो न भवत्येवेति नियमः स्यात् । किंतु दोषावरणक्षयातिशयवशादित्युक्तप्रायं । यावज्ञेयव्यापि ज्ञानस्वभावस्यात्मनो दोषावरणक्षयस्वभावोपलब्धिरेव सकलज्ञता न स्वभावातिक्रांतिः ॥
यच्चान्यदुक्तमन्यैः
बुध्यादीनाम सार्वश्यमिति सत्यं वचो मम ॥ मदुक्तत्वाद्यथैवाभिरुष्णो भास्वर इत्यपि ॥ १ ॥ सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ॥ निराकरणवच्छक्त्या न चासीदिति कल्पना ॥ २ ॥ न चागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् ॥ नरंतर प्रणीतस्य प्रामाण्यं गम्यते कथं ॥ ३ ॥
प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य च ॥ सद्भाववारणे शक्तं को नु तं कल्पयिष्यति ॥ ४ ॥ भवतु वा सर्वज्ञस्तथापि —
सर्वज्ञोऽयमिति तत्तत्कालेऽपि बुभुत्सुभिः || तज्ञज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथं ॥ १ ॥
कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ॥ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यति ॥ २ ॥ सर्वज्ञो नावबुध्दश्व येनैव स्यान्न तं प्रति ॥
For Private And Personal Use Only