SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० भट्टानन्तकीर्तिप्रणीता नुपपतिविकलतया हेतुत्वायोगात् । तथाविधस्यापि हेतुत्वे जैमिनिरन्यो वा न कश्चित्सर्वज्ञाभाव वेदार्थतत्त्वं वा वेति वक्तृत्वादिभ्यः पुरुषांतरवदित्यनिष्टसिद्धिः स्यात् । वक्तृ. त्वाद्यविशेषेऽपि कस्यचिद्वेदार्थज्ञतातिशयसंभवेऽन्याऽपि किं न स्यात् । स्यादेतत् । दशहस्तांतरे व्योग्नि यो नामोत्प्लुत्य गच्छति ॥ न योजनमसौ गंतुं शक्तोऽभ्यासशतैरपि ॥ १ ॥ तद्वद्यदि नाम कश्चित्पुरुषो वेदार्थज्ञो न तावता पुरुषेण केनचित्सकलज्ञेन भवितव्यं । दृष्टस्वभावातिक्रमविरोधादित्येतदपि शशकस्य भयाल्लोचनसंमीलनन्यायमनुकरोति ॥ यदि नाम- दशहस्तांतरे व्योम्नि नोप्लुवेरन् भवादृशाः ॥ योजनानां सहस्रं किमुत्प्लवेत न पक्षिराट् ॥ १ ॥ यथा वीर्यांतरायक्षयवशात् वैनतेयो योजनसहस्रमन्यैरलंध्यमुल्लंघयति तथा पुरुषविशेषोऽपि ज्ञानावरणीयक्षयातिशयवशात् विश्वमनन्यवेद्यं वेत्ति । लंघनोदकतापादिवदेव वा न स्वभावातिक्रमः स्यात् । यादकादिवदाश्रयोऽस्थिरः स्यात् । आहितो वा लंघनादिवत् ज्ञानस्यातिशयो यत्नांतरापेक्षी स्यात्तत्रोपयुक्तशक्तीनामुत्तरोत्तरातिशयादाने साधनानामसामर्थ्यात् । यदा पुनराश्रयस्थैर्य आहितो वा विशेषो न यत्नांतरमपेक्षते तदोत्तरोत्तरयत्नस्योत्तरोत्तरातिशयाध्यायकत्वात् भवत्येव ज्ञानस्वभावातिशयकाष्ठा । न चास्माभिरभ्यासातिशयादिष्यते ज्ञानस्यातिशयो येन For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy