SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः देश इति चेन्नाक्षाश्रितत्वं प्रत्यक्षाभिधानस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गोशब्दस्य । प्रवृत्तिनिमित्तं त्वेकार्थसमवायिनाऽ क्षाश्रितत्वेनोपलक्षितमर्थसाक्षात्कारित्वं गतिक्रियोपलक्षितगोत्ववत् गोशब्दस्य । अन्यद्धि शब्दस्य व्युत्पत्तिनिमित्तमन्यद्वाच्यं अन्यथा गच्छंत्येव गौौरित्युच्येत नान्या व्युत्पत्तिनिमित्ताभावात् । जात्यंतरं च गतिक्रियापरिणतं व्युत्पत्तिनिमित्तसद्भावाद्गोशब्दवाच्यं स्यात् । अन्यत्वे तु व्युत्पत्तिनिमित्ताभावेऽपि तेनोपलक्षित एव प्रवृत्तिनिमिते गोशब्दस्य वृत्ते व्याप्त्यतिव्याप्ती । तथेह केवलज्ञाने व्युत्पत्तिनिमित्तस्याक्षाश्रितत्वस्याभावेऽपि प्रवृत्तिनिमित्तस्यार्थसाक्षाकारित्वस्य भावात् प्रत्यक्षाभिधानवृत्तिरविरुद्धा । तेन सर्वस्येंद्रियद्वारेण प्रतिनियतार्थावबोधपरिकल्पनासंभवान्नोपमेयस्तदभावः । नाप्यर्थापत्तिगम्यः सर्वज्ञाभावमंतरेणासंभविनः प्रमाणषटकविज्ञातस्य कस्यचिद्धर्मांतरस्याभावात् । वक्तृत्वादेरपि सर्वज्ञतयाऽनुपलब्धिलक्षणप्राप्तया इतराव्यवच्छेदरूपया विरोधद्वयस्याप्यसिद्धेरन्यथानुपपत्तेरभावात् । कचिद्वक्तरि सर्वज्ञताउनुपलब्धेर्विरोधसिद्धौ वेदार्थज्ञातयाऽपि तत्रानुपलब्धया विरोधसिद्धेर्न कश्चिद्वदार्थज्ञः सर्ववित् स्यात् । वक्तरि सर्वत्रानुपलब्ध्या विरोधसिद्धिरिति चेन्न स्वोपलंभनिवृत्तरनैकांतिकत्वात् सर्वोपलंभनिवृतेरसिद्धत्वात् । एतेन वक्तृत्वादेः सर्वज्ञत्वाभावानुमापकत्वं निरस्तं । असाध्याविरुद्धस्यान्यथा For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy