________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८ भट्टानन्तकीर्तिप्रणीता क्षुरादीनां दूरस्थितरूपादिग्रहणे गृध्रादिप्वतिशयः । रूपादिविरहिणां चाकाशकालात्मादीनामंतःकरणजनितेन विशदात्मना ज्ञानेनोपलंभात् । वैशधं च मनोजनितज्ञानस्य भावनाबलतः । कामशोकादिविप्लुतधियः कामिन्यादिप्रतिभासवत् । कामिन्यादावुपलंभसंभवात्स्याद्भावनाबलतो वैशा नात्रात्यंतपरोक्षे लिंग इति चेन्न । अत्रापि श्रुतमयेन ज्ञानेनोपलंभसंभवात् । तस्यापि स्वतश्चोदनावत्प्रामाण्यात् । पुरुषाभावस्यान्यत्रापि दुरन्वयात् । ज्ञानस्य वा ज्ञेयपरिमाणस्य कः स्वार्थः। करणानां ह्ययं विषयनियमो न बुद्धेः तस्याः समस्तज्ञेयव्यापित्वात् । सकलमनेकांतं सत्त्वादिति विश्वस्य विषयीकरणात् । तस्याश्चानियताया बुद्धेनियमहेतूनामिंद्रियाणामभावात् । दोषावरणक्षयाच्च । वैशद्यानियतविषयत्वाभ्यामनंतात्तत्साक्षात्कारिण्याः किं पंचविषयावबोधो विरोधमध्यास्ते । येनैकेन प्रमाणेन सर्वज्ञत्वविरोधः स्यात् । एतेन सदिंद्रियसंप्रयोगजत्वेन सर्वज्ञत्वनिराकरणं निरस्तं । इंद्रियार्थसन्निकर्षजस्य हि ज्ञानस्यायं वर्तमानार्थग्रहणलक्षणानियमो नातींद्रियस्य । तस्यातीतानागतवर्तमानार्थेष्वविशेषात् । कथमन्यथा त्रिकालविषयमर्थ चोदना पुरुषस्य प्रतिपादयति । अंधस्येवार्थः दर्शः (?) परोक्षार्थ केवलं वैशये विवादः। तत्रापि दोषावरणक्षयो निमित्तं । रजोनीहाराद्यावृतार्थप्रतिभासस्येव तद्वियोगः । कथं पुनरनक्षाश्रितस्य ज्ञानस्यायं प्रत्यक्षव्यप
For Private And Personal Use Only