________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघुसर्वज्ञसिद्धिः
११७ दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोतृवृत्तितः ॥ इत्येतदनेनापास्तं । तथाहियेन जात्यंतरे रूपगालोकं विनेष्यते ॥ नूनं स चक्षुषा रूपमनालोकं समीक्षते ॥ यथा जात्यंतरे दृष्टः स्वभावातिक्रमोऽधुना ॥ नरांतरे तथाऽनक्षदृष्टिरूपोऽन्यदाऽप्यभूत ॥ जात्यंतरे यथा दृष्टोऽतिशयः स्वार्थलंघनः । तथा नरांतरेऽपि स्यादनौ नयनवृत्तितः ॥ .
तथाहि- चक्षुःश्रवसो भुजंगा इति कविप्रवादश्च श्रूयते । तेषां स मिथ्यावाद इति चेन्न बाधकाभावात् कर्णच्छिद्रानुपलब्धेः । अस्मदादावनुपलब्धिरेव बाधकमिति चेत् कथं तर्हि जातिविशेषस्यांधकारांतरितरूपग्रहणं । तथाविधानुपलंभस्याविशेषात्तदविशेषेऽपि तत्संभवेऽन्यत्र को विरोधो भविष्यति । न दृष्टं च प्रत्यक्षस्य मनागपि सामर्थ्य । नानुमानादेः । लिंगादिरहिते क्वचिदित्येतदप्यनल्पतमोविलसितं । अंधकारव्यवहितरूपग्रहणवजातिविशेषस्य पुरुषविशेषस्यापि कालव्यवहितधर्मादिग्रहणमविरुद्धमिति । भवतु वा स्वार्थानतिलंधनं तथापि सर्वज्ञत्वमनिवार्य । चक्षुरादिभिरतिशयवद्भिर्द्रव्यस्वभावदेशकालव्यवहितरूपादिसद्भावोपलंभात् । उपलभ्यते हि च
For Private And Personal Use Only