________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टानन्तकीर्तिप्रणीता विज्ञानं यथाभूतार्थप्रायुपलब्धं तथा सर्वदा सर्वत्र प्राण्यंतरेऽपीति नियमे नक्तंचराणामनालोकांधकारव्यवहितरूपोपलंभो न स्यात् । स्वात्मनि तथाऽनुपलंभात् । प्राण्यंतरे स्वात्मन्यनुपलब्धस्याप्यनालोकांधकारव्यवहितरूपोपलंभलक्षणा तिशयस्य संभवे तद्वत्पुरुषांतरस्यापि इंद्रियमंतरेण द्रव्यस्वभावदेशकालव्यवहितरूपाद्युपलंभः किं न स्यात् । तथा चैक एवातीतानागतवर्तमानानंतार्थव्यंजनपर्यायात्मकसूक्ष्मांतरितदूरार्थेष्वनंतेष्वप्रतिबध्दवृत्तिरमलः केवलाख्योऽनंतावबोधः सिध्दिमास्तिघ्नुते । तस्मात्---
यैरुक्तं केवलज्ञानमिंद्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं सूक्तं जीवस्य तैरदः ॥१॥ तथाच यदुक्तं कैश्चित्यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्यते एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते ॥ नूनं स चक्षुषा सर्वान्रसादीन्प्रतिपद्यते ॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनं ॥ भवेदिदानी लोकस्य तथा कालांतरेऽप्यभूत् ॥ यत्राप्यतिशयो दृष्टः स स्वार्थानतिलंघनात् ।
For Private And Personal Use Only