________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघुसर्वज्ञसिद्धिः माण्याचोदनातः सर्वज्ञाभावसिध्देः स प्रतिबंधकः स्यात् । तस्माचोदनातः सर्वज्ञाभावसिध्दिमिच्छताऽन्ययोगव्यवच्छेदेनाप्रामाण्यनिवृत्तिः साधनीया । तत्सिध्दिरपि सर्वज्ञाभावसिध्या पुरुषमात्राभावसिध्दौ स्यादिति कथमितरेतराश्रयदोषो न स्यात् । अस्तु वाऽन्ययोगव्यवच्छेदेन श्रुतेरप्रामाण्याभावनिश्चयस्तथापि नातः सर्वज्ञाभावसिध्दिः । कार्यार्थे वेदस्य प्रामाण्यादन्यत्र प्रामाण्यानभ्युपगमात्तथाविधायाश्च श्रुतेरभावात् । खरविषाणमित्युपमानमपि न सर्वज्ञाभावसाधनं । उपमानं ही उपमानोपमेययोरुभयोरप्यध्यक्षत्वे सादृश्यालंबनमुदेति । अन्यथा उपमानोपमेययोः सादृश्यस्याप्रतीतेन सादृश्यविशिष्टं वस्तु तद्विशिष्टं वा सादृश्यमुपमानस्य विषयः स्यात् । प्र. त्यक्षत्वे चोभयोः सर्वज्ञनिरूपितायाः प्रत्यक्षेणैव प्रतीतेरुपमानमपार्थकं स्यात् । प्रत्यक्षेणैव सर्वदा सर्वत्र सर्वज्ञनीरूपताप्रतिपत्तौ प्रतिपत्तिमतः सर्वज्ञतापत्तिः । विपर्यये न सर्वथा सर्वज्ञनीरूपतासिध्दिः । अहमिव सर्वदा सर्वपुरुषाः प्रतिनियतमर्थमिंद्रियैः पश्यंति अशेषपुरुषवदहं वेत्येतदप्युपमानं तादृगेव । तथा सकलपुरुषसाक्षात्कारिदर्शनस्यानियतविषयत्वातींद्रियत्वप्रसंगात् स्ववचनविरोधश्चैवं स्यात् । विमत्यधिकरणभावापन्नस्य कस्यचित्तज्ञानस्य चातींद्रियस्यादर्शनेन सादृश्यप्रतीतेरभावात् न तत्राप्युपमानसंभवः । संभवेऽपि न तवेष्टसिध्दिः स्यात् । स्वात्मनि च यावद्भिः कारणैर्जनितमर्थसाक्षात्कारि
For Private And Personal Use Only