SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टानन्तकीर्तिप्रणीता तादृश्येव । तदन्यज्ञानमपि सर्वज्ञाभावसाधनं । ___ अभावाभिधानं प्रमाणं अशेषज्ञेयविषयविज्ञानविकलासकलज्ञेयज्ञानसमन्वितकालदेशानवच्छिन्नसकलपुरुषपरिषत्साक्षात्करणमंतरेण किमन्यत् तच्चासर्वज्ञस्य कथं स्यात् । क्वचित्कदाचित्कस्यचित्तथा ज्ञाने न साकल्येन सर्वज्ञाभावसिध्दिः । सर्वज्ञसद्भावादन्यस्तदभावः तद्ग्राहि ज्ञानं तदन्यज्ञानमिति चेत्तदपि सर्वथा सर्वत्र सर्वज्ञो नास्तीत्यात्मानमासादयत्प्रमातुः सर्वज्ञतामासादयति । अन्यथोपजायमानं तव न कंचनार्थ पुष्णाति । पुरुषमात्रस्याभावसिद्धावन्ययोगव्यवच्छेदेनाप्रामाण्यनिवृत्तेरनिश्चयात् न चोदनातः सर्वज्ञाभावसिद्धिः । तदसिद्धौ च पुरुषमात्रस्याभावसिद्धिरितीतरेतराश्रयत्वान्न चोदनापि सर्वज्ञाभावसाधिका । अप्रामाण्यनिवृत्त्यन्यथानुपपत्त्या पुंसोऽप्रमाण्यकारणस्यातींद्रियज्ञानविकलस्याभावसिद्धेरन्यस्य वीतरागसर्वज्ञस्य भावेऽपि तद्गुणैरपकृष्टत्वादोषाणामस्त्येवाप्रामाण्यनिवृत्तिः । सर्वज्ञनिवृत्त्यनिश्चयेऽपि चोदनायास्ततः कथमितरेतराश्रयदोषः स्यादिति चेदेवमप्रामाण्यनिवृत्तिः प्रत्यागमेऽपि किं न स्यात् । मिथ्यात्वाज्ञानसंशयलक्षप्राणामाण्यनिवृत्यसिध्देरिति चेदत्र कुतस्तदभावसिध्दिः । दोषाश्रयपुरुषस्याभावादिति चेदितरेतराश्रयत्वं । अभावप्रमाणादिति चेत्तथाऽन्यत्रापि किं न स्यात् । तथाऽप्रामाण्याभावसिध्दौ च प्रत्यागमस्याशेषविषयावबोधावबोधकस्यावबोधकत्वेन चोदनावत्प्रा For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy