SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः ११३ पुरुषाभावः । कथं पुनरतींद्रियार्थवेदिनो भवता विभावितोऽभावः ? प्रत्यक्षस्यात्यक्षेऽनक्षज्ञानवति भावाभावविवेचनसामर्थ्याभावात् । भावे वा नास्मिन्देशे काले वा भावसाधनं घटते । अभीष्टत्वात् । देशकालात्मज्ञानानामनवयवेनाव्यापकस्यासर्वदर्शिप्रत्यक्षस्य सर्वदा सर्वत्र सर्वज्ञाभावज्ञानमयुक्तं तथा ज्ञाने सर्वज्ञसिद्धिप्रसंगात् । न च प्रत्यक्ष मभावविषयं उक्तदोषात् । प्रमाणपंचकाभावलक्षणोऽभावः समुद्रोदकपरिसंख्यानेनानैकांतिकः । न च प्रमाणपंचकस्याभावोऽत्र अनुमानसंभवात् । ज्ञानमात्रनिर्मुक्तात्मरूपोऽप्यभावो नापरिच्छेदको विरोधात् । परिच्छेदो हि नाम ज्ञानधर्मः स कथमशेषात्मना ज्ञाननिर्मुक्तस्यात्मनः स्यादभावविषयस्यापि ज्ञानस्याभावात् । भावे वा तस्यैवाभावपरिच्छेदकत्वात्तदेवाभावप्रमाणमिति वक्तव्यं नान्यत् । अभावज्ञानभावे च कथमात्मा ज्ञाननिर्मुक्तोऽभावप्रमाणं स्यात् । निषेध्यविषयज्ञानवैकल्यादात्मा ज्ञाननिर्मुक्तोऽभावज्ञानहेतुत्वादभावप्रमाणमुच्यते इति चेत्सति मुख्ये किं गौणकल्पनया । केन वा निषेध्यविषयज्ञानेनात्मनो निर्मुक्तिरभावज्ञानहेतुः । तद्विषयदर्शनज्ञानेन स्वात्मनो निर्मुक्तिरनैकांतिकी सर्वात्मनोऽ सिध्देति न तथाविधदर्शनज्ञानेनात्मनो निर्मुक्तिरभावज्ञानसाधिनी । निराचिकीर्षित विषयानुमानादिज्ञानैरपि समस्तव्यस्तैरात्मनो निर्मुक्तिः प्रत्यात्मनियतचेतोवृत्तिविशेषेणानैकांतिकी For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy