________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२ भट्टानन्तकीर्तिप्रणीता त्येतदन्यत्रापि शक्यते एव वक्तुं । भारताध्ययनं सर्व तदध्ययनपूर्वकं । तदध्ययनवाच्यत्वादधुनाध्ययनं यथेति । शब्दादप्यनादित्वसिद्धिरप्रामाण्याभावनिश्चये सति स्यात् । तन्निश्चयोऽपि ततोऽनादित्वसिद्धौ स्यात् । अन्यथा दोषाश्रयपुरुषसद्भावाशंकया नाप्रामाण्याभावनिश्चयः स्यादितीतरेतराश्रयत्वान्न शब्दादपि तत्सिद्धिः । न च तथाविधं वाक्यमस्ति । नापि विधिवाक्यादन्यस्य परैः प्रामाण्यमिष्यते । तादृग्वचनानुक्रमांतरस्याभावात् नोपमानमपि तत्साधनं । नाप्यर्थापत्तिः । अनादित्वमपौरुषेयत्वाख्यमंतरेण कोऽर्थः प्रमाणषट्कप्रमितो न भवति यतस्तस्य कल्पना स्यात् । न स प्रामाण्यलक्षणः तथाविधस्यान्यत्रापि भावात् । दोषाश्रयपुरुषसद्भावान्न सोऽन्यत्रेति चेदत्र पुरुषाभावः कुतोऽवसितः ? अन्यतश्चेत्स एवोच्यतां किमनेन सिद्धोपस्थायिना । प्रामाण्यान्यथानुपपत्तिरिति चेचक्रकप्रसंगः । स नाप्रामाण्याभावलक्षणोऽप्युक्तदोषानतिवृत्तेः । न चाप्रामाण्याभावात्पुरुषस्याभावसिद्धिः धूमाभावादग्न्यभाववत् । कार्याभावस्य कारणाभावव्यभिचारादन्यथानुपपत्तेरभावात् । अप्रतिबद्धसामर्थ्यस्य पुंसो प्रामाण्यकारणस्याभावसाधनेऽपि न सर्वथा पुरुषस्याभावसिद्धिः । पुरुषमात्रस्यानिराकरणादिष्टसिद्धिश्च । तथाविधस्यातींद्रियज्ञानविकलस्य पुंसोऽनिष्टत्वात् ॥
नन्वतींद्रियार्थस्य ज्ञातुरभावादन्यस्याप्यसिद्धेः सिद्ध एव
For Private And Personal Use Only