________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११
लघुसर्वज्ञसिद्धिः न तत्सत्त्वादिकं । ततस्तत्सिद्धरस्माभिरपीष्टत्वात् । तदना. दिसिद्धतेतिचेत्स एव दोषोऽनादिकालस्यादर्शने तद्दर्शनायोगादिति । समयादर्शिनोऽपि वा तद्दर्शनप्रसंगः । कर्तुरस्मरणादयोऽपि हेतवो न वेदस्यापौरुषेयतां साधयति । कर्तुरस्मरणं हि वादिनः प्रतिवादिनः सर्वस्य वा तत्साधनं स्यात् ? वादिनोऽपि तत्कर्तुरभावादनुपलब्धेर्वा स्यात् ? । अनुपलब्धेश्च तदनैकांतिकं स्यात् । तथाविधस्यागमांतरेऽपि भावात् कर्तुरस्मरणनिमित्तानुपलब्धेरविशेषात् । परैः कर्तु. रागमांतरे स्मरणान्न वादिनोऽस्मरण तत्रेति चेत् न परकीयस्मरणस्याप्रमाणत्वात् । अन्यथा न वेदेऽपि वादिनोऽ स्मरणं स्यात्परैस्तत्रापि कर्तुः स्मरणात् । कर्तुरभावादस्मरणं चेकिं प्रमाणांतरादेतस्मादेवानुमानात्तदभावसिद्धिः ? । प्रमाणांतरात्तदभावसिद्धौ अस्यानुमानस्य वैयर्थ्य तत एवापौरुषेयत्वसिद्धेः । अस्मादेवानुमानात्तदभावसिद्धिश्चेत्तदभावासिद्धौ कथमस्य हेतो. सिद्धियेनातस्तदभावसिद्धिः स्यादितीतरेतराश्रयदोषः कथं न स्यात् । प्रतिवादिनोऽपि कर्तुरस्मरणं तत्रासिद्धं नापौरुषेयत्वसाधनायालं । तत्र हि प्रतिवादी स्मरत्येवं कर्तारं । इत्येतेन सर्वस्यास्मरणं प्रत्याख्यातं । सर्वात्मज्ञानविज्ञानरहितो वा कथं सर्वस्य कर्तुरस्मरणमवैति ॥
यद्वेदाध्ययनपूर्वकं वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथे
For Private And Personal Use Only