________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टानन्तकार्तिप्रणीता भिचारः । प्रमेयाभावोऽपि तद्धेतुः तदभावादन्यत्राभावज्ञानानुत्पत्तेरव्यभिचार इति चेत्स एव दोषः । न चाभावस्य जनकत्वमभावत्वविरोधात् । अनादिसत्त्वात्तदभावज्ञानं नाभावादिति चेत्तदनादिसत्त्वस्य ज्ञातस्याज्ञातस्य वाऽभावज्ञापकत्वं स्यात् ।। अज्ञातस्य ज्ञापकत्वे संकेताग्राहिणोऽपि सर्वस्याभावज्ञानं ( पकत्वं ) स्यात् । केनचित्पत्यासत्तिविप्रकर्षाभावात् । नापि ज्ञातस्य ज्ञापकत्वं ज्ञप्तरेवासंभवात् । प्रत्यक्षादिप्रमाणपंचकस्यानादिसत्त्वाज्ञापकत्वेन वक्ष्यमाणत्वात् । प्रत्यक्षादीनामन्यतमेन चानादिसत्तावयमे ऽभावप्रमाणवैयर्थ्यं । तत एव पौरुषेयत्वाभावसिद्धेरनादिसत्त्वसिद्धिस्तदभावसिद्धिनांतरीयकत्वात् । अस्तु तनादिसत्त्वसिद्धेरेव तदभावसिद्धिरिति चेत्स्यादेतद्यदि अनादिसत्त्वसिद्धिः स्यात् । यावता सैव नास्ति । प्रत्यक्षादीनामन्यतमेनापि तस्य तत्सिद्धेरयोगात् । एतेन अनादिसत्त्वमेव तदसत्वमतस्तदुपलंभ एव पौरुषेयत्वाभावोपलंभ इत्येतन्निरस्तं ।
अभावप्रमाणाभावे कथमात्मादीनां मूर्त्याद्यभावः प्रतीयत इति चेन्नावश्यमात्मादीनां मूर्त्याद्यभावो ज्ञातव्यः तस्याज्ञाने पि कस्याश्चित्पुरुषार्थक्षतेरभावात् । पौरुषेयत्वाभावानवबोधे पुनरप्रामाण्याभावनिश्चयाभावान्नवेदार्थे निःशंकाप्रवृत्तिः स्यात् । ततो नाभावादपि पौरुषेयत्वाभावसिद्धिः ॥
पर्युदासेऽपि किमन्यत्पौरुषेयत्वाभिमतं प्रत्यक्षसिद्धं स्यात् ।
For Private And Personal Use Only