SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुसर्वज्ञसिद्धिः मांतरे वादिप्रतिवादिनोरुभयोरप्यभावज्ञानाभावात्प्रमेयाभावस्याभावो युज्यते । न वेदे विगानात् । प्रतिवादिनोऽभावज्ञानाभावेऽपि वादिनो भावादिति चेन्न । वादिनो यदभावज्ञानं तच्छूद्धानुसारिणः सांकेतिकं नाभावबलोपजातं । आगमांतरे प्रतिवादिनो प्रामाण्याभावज्ञानवंत् । अन्यथाऽ गृहीतसमयस्यापि अभावज्ञानोत्पत्तिः स्यात् । सांकेतिकाचाभावज्ञानान्नाभावसिद्धिरन्यत्रापि ततोऽप्रामाण्यभावसिद्धिप्रसंगात् । एतेन- प्रमाणपंचकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणतेत्येतत्प्रतिव्यूढं । चैत्यवन्दनादिवाक्येऽपि पुरुषवस्तुसत्तावबोधकप्रमाणपंचकाप्रवृत्तिप्रसंगात् । प्रमेयाभावस्याभावात्प्रमाणपंचकनिवृत्तावप्यभावप्रमाणस्याप्रवृत्तावुक्तदोषानुषंगात् । आत्मा ज्ञाननिर्मुक्तोऽभावप्रमाणमित्यत्रापि सर्वथा ज्ञाननिर्मुक्तात्मनो नाभावपरिच्छेदकत्वं विरोधात्परिच्छेदस्य ज्ञानधर्मत्वात् । निषेध्यविषयप्रमाणपंचकविनिर्मुक्तात्मनो व्यभिचारित्वं अन्यत्राप्यविशेषात् । तदन्यज्ञानलक्षणाभावप्रमाणेऽपि पौरुषेयत्वात् । अन्यस्यानादिसत्त्वस्य ज्ञानं तद यज्ञानं तत्प्रत्यक्षादीनामन्यतमं चेन्नाभावप्रमाणं स्यात् । अभावप्रमाणं चेन्न वस्तुसत्ताविषयं स्यात् । तद्विषयत्वे नाभावः स्यात्तस्य तद्विषयत्वविरोधात् ॥ पौरुषेयत्वादन्यस्तदभावस्तग्राहि ज्ञानं तदन्यज्ञानमिति चेदत्रापि तस्य किमुत्थापकं ? प्रमाणपंचकाभावश्चेत्पूर्ववद्ध्य For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy