________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८ भट्टानन्तकीर्तिप्रणीता साक्षात्कतु । तत्प्रत्यक्षीकरणे स एवातींद्रियार्थदर्शी स्यात् । अधुना तदभावसाधने कुमारसंभवादेरविशेषः कालिदासादेरिदानीमभावात् । प्रत्यक्षस्याभावविषयत्वविरोधादनभ्युपगमात् । अभावप्रमाणवैयर्थ्यप्रसंगाच्च । अभावप्रमाणात्तदभावसिद्धिश्चेत् तत्प्रमाणपंचकविनिवृत्तिरात्मा वा ज्ञाननिर्मुक्तस्तदन्यज्ञानं वा स्यात् । तत्र सर्वस्य प्रमाणपंचकाभावोऽसिद्धो नाभावसाधनायालं परस्य । भावत्के व्यभिचारी। पिटकत्रयेऽपि भावात् । पुरुषसद्भावावबोधकप्रमाणपंचकविनिवृत्तेरविशेषात् अतोऽस्यापि वेदवदपौरुषेयतासिद्धिः । परैः पिटकत्रये पुरुषसद्भावाभ्युपगमात् प्रमाणपंचकविनिवृत्तेरसाधकत्वमिति चेन्न । पराभ्युपगमस्य भवतोऽप्रमाणत्वात् । प्रमाणत्वे वेदेऽपि तैरेव पुरुषसद्भावाभ्युपगमादस्तु पौरुषेयत्वसिद्धिः । अन्यथाऽत्रापि माभूत् अविशेषात् । आगमांतरे च परैः पुरुषसद्भावाभ्युपगमात् । प्रमाणपंचकविनिवृत्तेरसाधकत्वे वेदेऽप्यसाधकत्वमस्तु । लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं स्यात् इति सर्वत्रानाश्वासात् ।
कस्य वाऽभावज्ञानाभावादभावस्याभावगतिः । किं सर्वस्य वादिनः प्रतिवादिनो वा ? तत्र सर्वस्याभावज्ञानाभावोऽसिद्धः । प्रतिवादिनोऽभावज्ञानाभावो वेदेऽपि समानः । वादिनोऽभावज्ञानाभावात्प्रमेयाभावस्याभावे प्रतिवादिनो वेदेऽप्यभावज्ञानाभावात्प्रमेयाभावो न स्यात् । तयोर्विशेषाभावात् । आग
For Private And Personal Use Only