________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ परमात्मने नमः ॥
॥ अथ लघु सर्वज्ञसिद्धिः ॥
For Private And Personal Use Only
१०७
यस्य यज्जातीयाः पदार्थाः प्रत्यक्षाः तस्यासत्यावरणे तेsपि प्रत्यक्षाः । यथा घटसमानजातीयभूतलप्रत्यक्षत्वे घटः । प्रत्यक्षाश्च विमत्यधिकरणभावापन्नस्य कस्यचिद्देशादिविप्रकृष्टत्वेन धर्माधर्माकाशकाल हिमवन्मंदरम कराकरादिसजातीयाः नष्टमुष्टिचिंतालाभाला भजीवितमरणसुखदुः खग्रहनक्षत्रमंत्रौषधि - शक्त्यादयो भावास्तदागमप्रणेतुरिति । न तावदयमसिद्धो हेतुः । तथाहि यो यद्विषयानुपदेशा लिंगानन्वयव्यतिरेकाविसंवादिवचनानुक्रमकर्ता स तत्साक्षात्कारी यथा अस्मदादिर्यथोक्तजलशैत्यादिविषयवचनरचनानुक्रमकारी तद्रष्टा नष्टमुष्ट्यादिविषयानुपदेशालिंगानन्वयव्यतिरेकाविसंवादिवचनरचनानुक्रमकर्ता च कश्चिद्विमत्यधिकरणभावापन्नः पुरुष इति । यथोक्तविषयवचनरचनानुक्रमविशेषस्या पौरुषेयस्य कर्तुरभावादसिद्धोऽयमपि हेतुरिति चेत्कुतः पुनर्नररचितवचनरचनाविशिष्टस्यास्य वचनरचनानुक्रमविशेषस्यापौरुषेयताऽवसीयते यतोऽसि - द्धताऽस्य हेतोः स्यात् । न तावत्प्रत्यक्षेणापौरुषेयताऽवसीयते ।
प्रसज्यप्रतिषेधपक्षे हि पौरुषेयत्वाभावो ऽपौरुषेयत्वं । तच्चअनादिकालस्य अतीतस्याप्रत्यक्षीकरण तदा न शक्यते