________________
Shri Mahavir Jain Aradhana Kendra
१०६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं
स्वं परं चेति वस्तुत्वं वस्तुरूपेण भावय || उपेक्षाभावनोत्कर्षपर्यन्ते शिवमाप्नुहि ॥ २० ॥ मोक्षेsपि यस्य नाकांक्षा स मोक्षमधिगच्छति ॥ इत्युक्तत्वाद्धितान्वेषी कांक्षां न कापि योजयेत् ॥ २१ ॥ साऽपि च स्वात्मनिष्ठत्वात्सुलभा यदि चिन्त्यते || आत्माधीने सुखे तात यत्नं किं न करिष्यसि ॥ २२॥ स्वं परं विद्धि तत्रापि व्यामोहं छिन्धि किन्त्विमम् || अनाकुलस्वसंवेद्ये स्वरूपे तिष्ठ केवले ॥ २३ ॥ स्वः स्वं स्वेन स्थितं स्वस्मै स्वस्मात्स्वस्याविनश्वरे ॥ स्वस्मिन् ध्यात्वा लभेत्स्वेत्थमानन्दममृतं पदम् ॥ २४ ॥ इति स्वतत्त्वं परिभाव्य वाङ्मयं । य एतदाख्याति शृणोति चादरात् ॥ करोति तस्मै परमार्थसम्पदं । स्वरूपसम्बोधनपञ्चविंशतिः ॥ २५ ॥
॥ इति स्वरूपसम्बोधनम् ||
For Private And Personal Use Only