SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. इदानीं पुनः परार्थसम्पत्तिं निर्दिशतिप्रवचनपदान्यभ्यस्यास्तितः परिनिष्ठिता-। नसकृदवबुध्धेद्धाद्वोधाबुधो हतसंशयः ॥ भगवदकलंकानां स्थानं सुखेन समाश्रितः। कथयतु शिवं पंथानं वः पदस्य महात्मनां ६ कथयतु प्रतिपादयतु । कः बुधः ज्ञानी । कं पंथानं मार्गप्राप्त्युपायं । किंविशिष्टं शिवं शिवस्य हेतुः शिवस्तमुपचारात् । कस्य पदस्य स्थानस्य । केषां महात्मनां महांतः संसारिभ्योऽतिरिक्ताः सिद्धा आत्मानो जीवास्तेषां । केभ्यः कथयतु वः युष्मभ्यं विनेयेभ्यः । केन सुखेन ताल्वोष्ठपुटव्यापाराक्लेशाभावेन । किंविशिष्टः सन् समाश्रितः प्राप्तः। किं स्थानमवस्थानं न क्षणभंगं तत्रोपदेशाभावात् । किंविक्षिष्टं भगवत् त्रिलोकपूजार्ह । केषां स्थानं अकलंकानां न विद्यते दोषावरणरूपाः कलंका येषां ते अकलंकास्तेषामर्हतामित्यर्थः। किंविशिष्टः सन् हतसंशयः उपलक्षणमेतत् । तेनायमर्थः- हता नष्टाः संशयादयो यस्य स तथोक्त इति । किं कृत्वा अवबुध्द्य निश्चित्य । कथं असकृत् पुनःपुनात्वेत्यर्थः । कान् । अर्थान् जीवादितत्त्वानि । किंविशिष्टान् परिनिष्ठितान् । व्यवस्थितान् । क ततस्तेषु प्रवचनपदेषु । कस्मात् बोधात् ज्ञानात् । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy