________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
भट्टाकलंकप्रणीतं किंविशिष्टात् इद्धात् उज्वलात् संकरव्यतिकरव्यतिरेकात् । अहमहमिकया प्रकाशमानादित्यर्थः । किं कृत्वा अभ्यस्य परिचिंत्य । पुनःपुनरुपयुज्येत्यर्थः । कानि प्रवचनपदानि प्रकृष्टं पूर्वापरविरोधरहितं वचनं प्रकृष्टस्य वा पुरुषस्य वचनं तस्य पदानि सम्यग्दर्शनादीनि णमो अररंताणमित्यादीनि वा । परमागमाभ्यासात् परिणतश्रुतज्ञानः शुक्लध्यानानलनिर्दग्धद्रव्यभावकलंकः सार्वश्यमापन्नो मोक्षमार्गोंपदेशाय परार्थाय चेष्टतामिति भावो देवानां ॥
नाभ्यासस्ताहगस्ति प्रवचनविषयो नैव बुद्धिश्च तादृक् । नोपाध्यायोऽपि शिक्षानियमनसमयस्तादृशोऽस्तीह काले ॥ किंत्वेतन्मे मुनींदुव्रतिपतिचरणाराधनोपात्तपुण्यं । श्रीमद्भट्टाकलंकप्रकरणविवृतावस्ति सामर्थ्यहेतुः ॥ १ ॥ माऽयं मदांध इति चेतसि कोपमाधु-। माधुर्यमेव वहते सुधियां मदुक्तिः ॥ किं कामिनीजनमदोत्कटचाटुवाणी। प्राणेश्वरस्य रसनाटकनर्तकी न ॥२॥
For Private And Personal Use Only