SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० भट्टाकलंकप्रणीतं कनं तत्र बलं शक्तिः प्रज्ञा प्रकृष्टं ज्ञानं च विद्यते यस्य स तथेोक्तः । कथं स्वयं स्वेनात्मना नेंद्रियादिसाहाय्येनेत्यर्थः । पुनरपि किंविशिष्टः अधिगतः प्राप्तः किं पदं स्थानं । किंविशिष्टं आकलंकं अकलंकानामिदं आर्हत्यमित्यर्थः । ननु मुक्तौ जीवस्य ज्ञानाभावस्तत्स्वा - भाव्यविरहादित्याशंक्याह -- बोद्धा बुध्यते जानातीत्येवंशीलस्तत्स्वभाव इत्यर्थः । किं कृत्वा अभ्यस्य पुनः पुनर्भा - वयित्वा । कं तदर्थं तस्यागमस्यार्थों जीवादिवस्तु तं । आदौ किं कृत्वा बुध्वा अधीत्य ज्ञात्वा च । कं आगमं श्रुतं । केभ्यः तेभ्यः पंचगुरुभ्यः सकाशात् । कस्मादवधिभूताच्छब्दात् वर्णपदवाक्यात्मकप्रयोगात् । किंविशिष्टात् अर्थविषयात् अर्थे जीवादिवस्तु विषयो गोचरो यस्य तस्मादित्यनेनान्यापोहः शब्दविषय इति सौगतमतं प्रतिक्षिप्तं । तत्र प्रवृत्त्यभावात् । पुनः किंविशिष्टात् अपभ्रंशतः भ्रंशो लक्षणदोषस्तस्मादपगतः अपभ्रंशस्तस्मात् । अनेन यो जागारेत्यादिवाक्याप्रामाण्यं प्रतिपादितं । ततः पूर्वं किं कृत्वा आराध्य सेवित्वा कान् गुरून् अर्हदादीन् । कति पंच | कैर्गुणैः तपोभिर्बाह्याभ्यंतरैरिच्छानिरोधैः । किंविशिष्टैः अमलैः मिथ्यात्वादिमलरहितैः । पंचगुरुचरणस्यैव परममंगलत्वात् । तद्गुणगणानुस्मरणस्य शास्त्रपरिसमाप्तौ सफलत्वात् । एवं परमागमाभ्यासात्स्वार्थसंपत्तिरुक्ता ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy