SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. प्रमाणनयैरधिगम्यत एव तत्त्वार्थ इति चेन्न अप्रकृतनिराकरणार्थत्वात् । प्रकृतप्ररूपणार्थत्वाच्च निक्षेपस्य । न खलु नामादावप्रकृते प्रमाणनयाधिगतो भावो व्यवहारायालं। मुख्योपचारविभागेनैव तत्सिद्धेः । न च तद्विभागो नामादिनिक्षेपैर्विना संभवति येन तदभावेऽपि तत्त्वाधिगतिः स्यात् ॥ अथ भूयः शास्त्राध्ययनफलं दर्शयतिभव्यः पंचगुरून् तपोभिरमलैराराध्य बुध्वाऽऽगमं । तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छब्दादपभ्रंशतः॥ दूरीभूततरात्मकादधिगतो बोद्धाऽऽकलंकं पदं । लोकालोककलावलोकनबलप्रज्ञो जिनः स्यात् स्वयं ॥५॥ स्याद्भवेत् । कः भव्यः मोक्षहेतुरत्नत्रयरूपेण भविष्यति परिणंस्यतीति भव्यः । अभव्यस्य मुक्तावनाधिकारात्। किंविशिष्टः स्यात् जिनः स्यात् । पुनः कथंभूतः लोकालोककलावलोकनबलप्रज्ञः षद्रव्यसमवायो लोकः ततो बहिरलोकः केवलाकाशरूपः । तयोः कला विभागः । अथवा लोकश्वालोकश्च कलाश्च जीवादयः पदार्थाः तासामवलो For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy