________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं
वलिकावाही हार इत्यादि । अनेकजीवैकाजीवनाम आंदोलकमित्यादि । अनेकजीवाजीवनाम नगरमित्यादि । आहितनामकस्य द्रव्यस्य सोऽयमिति संकल्पेन व्यवस्थाप्यमाना स्थापना । सा द्विधा सद्भावस्थापनाऽसद्भावस्थापना चेति । तत्र मुख्यद्रव्याकृतिः सद्भावस्थापना अर्हत्प्रतिमादिः । तदाकारशून्या असद्भावस्थापना कपर्यादि । द्रव्यमपि द्विधा आगमनोआगमभेदात् । तत्र जीवादिप्राभृतज्ञायी चिरपरप्रतिपादनाद्युपयोगरहितः श्रुतज्ञानी आगमद्रव्यं । नोआगमद्रव्यं त्रेधा ज्ञायकशरीरभावितव्यतिरिक्तभेदात् । तत्र जीवादिप्राभृतज्ञायकस्य शरीरं त्रिविधं अतीतानागतवर्तमानविकल्पात् । अतीतं च त्यक्तं च्युतं च्यावितं चेति त्रिधा। तत्र त्यक्तं प्रायोपगमनेंगिनीभक्तप्रत्याख्यानभेदसमाधिमरणविसृष्टं । स्वायुःपाकवशाच्छिन्नं च्युतं । विषवेदनादिना खंडितायुष च्यावितमिति । गत्यंतरे स्थितो जीवो मनुष्यत्वाभिमुखो भावीत्युच्यते। कर्मनोकर्मभेदं तद्व्यतिरिक्तं । तत्र ज्ञानावरणाद्यष्टविधमात्मनः पारतंत्र्यनिमित्तं कर्म । शरीरत्रयपर्याप्तिषट्कयोग्यपुद्गलपरिणामो नोकर्म । तैजसस्यौदारिकवैक्रियिकाहारकेष्कंतर्भावात् । विग्रहगतौ च कार्मणोंs तर्भावात् । भावश्चागमनोआगमभेदात् द्वेधा । तत्र आगमभावो जीवादिप्राभृतज्ञायी तदुपयुक्तः श्रुतज्ञानी। विवक्षितपर्यायपरिणतो नोआगमभावः । ननु निक्षेपाभावेऽपि
For Private And Personal Use Only