SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं वलिकावाही हार इत्यादि । अनेकजीवैकाजीवनाम आंदोलकमित्यादि । अनेकजीवाजीवनाम नगरमित्यादि । आहितनामकस्य द्रव्यस्य सोऽयमिति संकल्पेन व्यवस्थाप्यमाना स्थापना । सा द्विधा सद्भावस्थापनाऽसद्भावस्थापना चेति । तत्र मुख्यद्रव्याकृतिः सद्भावस्थापना अर्हत्प्रतिमादिः । तदाकारशून्या असद्भावस्थापना कपर्यादि । द्रव्यमपि द्विधा आगमनोआगमभेदात् । तत्र जीवादिप्राभृतज्ञायी चिरपरप्रतिपादनाद्युपयोगरहितः श्रुतज्ञानी आगमद्रव्यं । नोआगमद्रव्यं त्रेधा ज्ञायकशरीरभावितव्यतिरिक्तभेदात् । तत्र जीवादिप्राभृतज्ञायकस्य शरीरं त्रिविधं अतीतानागतवर्तमानविकल्पात् । अतीतं च त्यक्तं च्युतं च्यावितं चेति त्रिधा। तत्र त्यक्तं प्रायोपगमनेंगिनीभक्तप्रत्याख्यानभेदसमाधिमरणविसृष्टं । स्वायुःपाकवशाच्छिन्नं च्युतं । विषवेदनादिना खंडितायुष च्यावितमिति । गत्यंतरे स्थितो जीवो मनुष्यत्वाभिमुखो भावीत्युच्यते। कर्मनोकर्मभेदं तद्व्यतिरिक्तं । तत्र ज्ञानावरणाद्यष्टविधमात्मनः पारतंत्र्यनिमित्तं कर्म । शरीरत्रयपर्याप्तिषट्कयोग्यपुद्गलपरिणामो नोकर्म । तैजसस्यौदारिकवैक्रियिकाहारकेष्कंतर्भावात् । विग्रहगतौ च कार्मणोंs तर्भावात् । भावश्चागमनोआगमभेदात् द्वेधा । तत्र आगमभावो जीवादिप्राभृतज्ञायी तदुपयुक्तः श्रुतज्ञानी। विवक्षितपर्यायपरिणतो नोआगमभावः । ननु निक्षेपाभावेऽपि For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy