SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं वीतरागाः संति क्षीणकषायछद्मस्थवीतरागाः संति सयोगिकेवलिनः संत्ययोगिकेवलिनः संति सिद्धाश्च शुद्धात्मान इत्यादि । भेदगणना संख्या । यथा अनंतानंता जीवाः । मिथ्यादृष्टयोऽनंतानंता इत्यादि । वर्तमाननिवासः क्षेत्रं यथा जीवानां क्षेत्रं लोकस्यासंख्येयभागः संख्येयभागः सर्वलोको वेत्यादि । तदेव त्रिकालगोचरं स्पर्शनं यथा सर्वलोकादि । कालो गुणस्थानायामोंऽतर्मुहूर्तादिः । विवक्षितगुणं परित्यज्य गुणांतरं प्राप्तस्य पुनस्तद्गुणप्राप्तिर्यावत्तावान् विरहकालोऽतर्मुहूर्तादिः । भाव आत्मनः परिणामः औदयिकादिः । परस्परं संख्याविशेषोऽल्पबहुत्वमिति। पूर्व कृत्वा विरचय्य न्यस्य । कान् अर्थवाक्प्रत्ययात्मभेदान् । अर्थश्च वाक्च प्रत्ययश्च ते आत्मानः स्वभावा येषां ते च ते भेदाश्च व्यवहारास्तान् । तत्रात्मानौ भेदौ द्रव्यभावौ तयोरर्थधर्मत्वात् । वागात्मको नामव्यवहारः । प्रत्ययात्मकश्च स्थापनाव्यवहारः तस्य संकल्परूपत्वात् । किंविशिष्टाँस्तान् श्रुतार्पितान् श्रुतेनानेकांतेन विकल्पितान् । कैः नयानुगतनिक्षेपैः नयान् द्रव्यपर्यायविषयाननुगता अनुवृत्ता निक्षेपा न्यासास्तैः। किंरूपैः उपायैः कारणैः । क भेदवेदने मुख्यामुख्यविशेषनिर्णये कारणभेदैरित्यर्थः। आदौ किं कृत्वा परीक्ष्य विचार्य । कान् ताँस्तान् वीप्सायां द्विवचनं । तत्र द्रव्यक्षेत्रकालभावविवक्षितानित्यर्थः। तान् कान् तद्धर्मान् तस्यानेकांतात्मनो वस्तुनो धर्माः सत्त्वादयस्तान् । कथंभूतान् For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy