SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ९५ द्रव्याणि द्रवति द्रोष्यत्यदुद्रुवदिति द्रव्यं गुणपर्ययवद्रव्यमिति वा द्रव्यलक्षणलक्षितानि । किंविशिष्टानि जीवादीनि जीवपुद्गलधर्माधर्माकाशकालनामानि । कैः अनुयोगैश्च प्रश्नैरेव । चशब्दस्य एवकारार्थत्वात् । किविशिष्टैः निर्देशादिभिदां गतैः निर्देश आदिर्येषां तानि निर्देशादीनि निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानानि । सत्संख्याक्षेत्रस्पर्शनकालांतरभावाल्पबहुत्वानि च तेषां भिदा भेदः तां गतैः प्राप्तैः । तत्र किमित्यनुयोगे वस्तुस्वरूपकथनं निर्देशः । यथा चेतनालक्षणो जीव इति। कस्येत्यनुयोगे स्वस्येत्याधिपत्यकथनं स्वामित्वं । केनेति प्रश्ने स्वेनेति करणनिरूपणं साधनं । कस्मिन्नित्यनुयोगे स्वस्मिन्नित्याधारप्रतिपादनमधिकरणं । कियच्चिरमिति प्रश्ने अनंतकालमिति कालप्ररूपणं स्थितिः । कतिविध इत्यनुयोगे चैतन्यसामान्यादेकविध इति प्रकारकथनं विधानं । एवं व्याख्याता निर्देशादयः । मध्यमरुचिविनेयाशयवशादेतदनुयोगसंभवात् । विस्तररुचिशिष्याभिप्रायेण पुनः सदादयो व्याख्यायंते । तत्र द्रव्यपर्यायसामान्यविशेषोःपादव्ययध्रौव्यव्यापकं सदिति कथनं । सत्प्ररूपणं यथा संति जीवाः संति मिथ्यादृष्टयः संति सासादनसम्यदृष्टयः संति सम्यमिथ्यादृष्टयः संत्यसंयतम्यग्दृष्टयः संति देशसंयताः संत्यपूर्वकरणसंयताः सत्यनिवृत्तिकरणबादरसांपरायसंयताः संति सूक्ष्मसांपरायसंयताः संत्युपशांतकषायछमस्थ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy