________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
९५
द्रव्याणि द्रवति द्रोष्यत्यदुद्रुवदिति द्रव्यं गुणपर्ययवद्रव्यमिति वा द्रव्यलक्षणलक्षितानि । किंविशिष्टानि जीवादीनि जीवपुद्गलधर्माधर्माकाशकालनामानि । कैः अनुयोगैश्च प्रश्नैरेव । चशब्दस्य एवकारार्थत्वात् । किविशिष्टैः निर्देशादिभिदां गतैः निर्देश आदिर्येषां तानि निर्देशादीनि निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानानि । सत्संख्याक्षेत्रस्पर्शनकालांतरभावाल्पबहुत्वानि च तेषां भिदा भेदः तां गतैः प्राप्तैः । तत्र किमित्यनुयोगे वस्तुस्वरूपकथनं निर्देशः । यथा चेतनालक्षणो जीव इति। कस्येत्यनुयोगे स्वस्येत्याधिपत्यकथनं स्वामित्वं । केनेति प्रश्ने स्वेनेति करणनिरूपणं साधनं । कस्मिन्नित्यनुयोगे स्वस्मिन्नित्याधारप्रतिपादनमधिकरणं । कियच्चिरमिति प्रश्ने अनंतकालमिति कालप्ररूपणं स्थितिः । कतिविध इत्यनुयोगे चैतन्यसामान्यादेकविध इति प्रकारकथनं विधानं । एवं व्याख्याता निर्देशादयः । मध्यमरुचिविनेयाशयवशादेतदनुयोगसंभवात् । विस्तररुचिशिष्याभिप्रायेण पुनः सदादयो व्याख्यायंते । तत्र द्रव्यपर्यायसामान्यविशेषोःपादव्ययध्रौव्यव्यापकं सदिति कथनं । सत्प्ररूपणं यथा संति जीवाः संति मिथ्यादृष्टयः संति सासादनसम्यदृष्टयः संति सम्यमिथ्यादृष्टयः संत्यसंयतम्यग्दृष्टयः संति देशसंयताः संत्यपूर्वकरणसंयताः सत्यनिवृत्तिकरणबादरसांपरायसंयताः संति सूक्ष्मसांपरायसंयताः संत्युपशांतकषायछमस्थ
For Private And Personal Use Only