________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीत वरूपाणि येनासौ तथोक्तः । अनेन चारित्रतपस्याराधनाद्वयं सूचितं । भूयः किंभूतः जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित् । जीवानां स्थानानि समासाः स्थानयोन्यवगाहकुलभेदा जीवस्थानानि । गुणानां मिथ्यात्वादिपरिणामानां स्थानानि पदानि गुणस्थानानि । मार्गणानां गत्यादीनामन्वेषणोपायानां स्थानानि पदानि मार्गणास्थानानि । जीवस्थानानि च गुणस्थानानि च मार्गणास्थानानि च तैः प्रत्येकं चतुर्दशभेदैः तत्त्वं जीवस्वरूपं वेत्ति जानातीति तथोक्तः । अनेन ज्ञानाराधना ज्ञापिता । पुनः किंविशिष्टः विवृद्धाभिनिवेशनः । विशेषेण वृद्धं क्षायिकस्वरूपेण परिणतमभिनिवेशनं सम्यग्दर्शनं यस्यासौ तथोक्तः । अनेन दर्शनाराधना निरूपिता । एवमाराधनाचतुष्टयस्यैव मोक्षमार्गत्वोपपत्तेः सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति वचनात् । ननु सूत्रे रत्नत्रयं मोक्षमार्ग उक्तः इह पुनश्चतुष्टयः प्रतिपादितस्ततो विरोध इति चेन्न । तपसश्चारित्रेऽतर्भावात् तथा प्रतिपादनसंभवात् । चारित्रस्यैव कर्मनिर्जराहेतुत्वेन तपस्त्वप्रतिपादनात् । न खलु चारित्रातिरिक्तं तपोऽस्ति । तस्य मोक्षानंगत्वात् । बहिरंगतपसो रत्नत्रयसाधनत्वात् अंतरंगस्य तु चारित्रविशेषत्वात् च शास्त्रे तस्य न पृथनिर्देश इति । किं कृत्वा विरुद्धाभिनिवेशनः संजात इत्याशंक्याह- अनुयुज्य पृष्ट्वा । कानि
For Private And Personal Use Only