________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९३
लघीयस्त्रयम्. अथेदानी निक्षेपस्वरूपनिरूपणपुरस्सरं शास्त्राध्ययनफलं निर्दिशति
श्रुतादर्थमनेकांतमधिगम्याभिसंधिभिः॥ परीक्ष्य ताँस्तान् तद्धर्माननेकान् व्यावहारिकान् ॥१॥ नयानुगतनिक्षेपैरुपायैआंदवेदने ॥ विरचय्यार्थवाक्प्रत्ययात्मभेदान् श्रुतार्पितान् ॥ २ ॥ अनुयुज्यानुयोगैश्च निर्देशादिभिदागतैः ॥ द्रव्याणि जीवादीन्यात्मा विवृहाभिनिवेशनः ॥ ३ ॥ जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित् ॥ तपोनिर्जीर्णकर्माऽयं विमुक्तः सुखमृच्छति ॥ ४॥ ऋच्छति प्राप्नोति । कः अयं प्रत्यक्षादिप्रमाणसिद्ध आत्मा । किं सुखं परमस्वास्थ्यमनंतज्ञानादिगुणरूपं । किंविशिष्टः सन् विमुक्तः सन् विशेषेणसामस्त्येन मुक्तः कर्मरहितः सन् । पुनरपि कथंभूतः तपोनिर्जीर्णकर्मा । तपसा यथाख्यातचारित्रलक्षणेन व्युपरतक्रियानिवृत्तिशुक्लध्यानेन निर्णािनि निर्मूलितानि कर्माणि ज्ञानावरणादीनि द्रव्यभा
For Private And Personal Use Only