SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९२ भट्टाकलंक प्रणीतं अथोक्तनयानां विशेषणं विशेषनयस्वरूपं च प्रतिपादयतिचत्वारोऽर्थनया ह्येते जीवाद्यर्थव्यपाश्रयात् ॥ त्रयः शब्दनयाः सत्यपदविद्यां समाश्रिताः ॥२२॥ Acharya Shri Kailassagarsuri Gyanmandir एते । के नैगमादयः प्रागुक्ताः । चत्वारोऽर्थनयाः अर्थप्रधाना नयाः । कुतः जीवाद्यर्थव्यपाश्रयात् जीवाजीवानामर्थानां व्यपाश्रयादालंबनात् । त्रयः शेषाः शब्दसमभिरूढैवंभूताः । शब्दनयाः शब्दप्रधाना नयाः । किंविशिष्टाः सत्यपदविद्यां समाश्रिताः सत्यानि प्रमाणांतराबाधितानि पदानि कालकारकादिभेदवाचीनि तेषां विद्या व्याकरणशास्त्रं तामाश्रिता आलंभिताः । व्याकरणाश्रितत्वादित्यर्थः । तत्र कालकारकलिंगादिभेदादर्थभेदकृच्छब्दनयः । पर्यायशब्दभेदादर्थभेदकृत्समभिरूढनयः । क्रियाशब्दभेदादर्थभेदकुदेवंभूतनयः ॥ अकलंक प्रभाभार द्योतितं श्रुतमर्थतः ॥ प्रमानयोपयोगात्म सौरी वृत्तिः प्रबोधयेत् ॥ १ ॥ इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृतौ स्याद्वादभूषणसंज्ञायां श्रुतोपयोगपरिच्छेदः षष्ठः ॥ ६ ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy