SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. प्रमाणता अविसंवादकत्वं स्यात् । केषां प्रमाणानां प्रमाणत्वेनाभ्युपगतानां । कुतः व्यवहारानुकूल्यात्तु संग्रहभेदको व्यवहारस्तस्यानुकूल्यमविसंवादस्तस्मादेव । अन्यथा तद्विसंवादात् । प्रमाणता न स्यात् । कुतः बाध्यमानानां संशयादीनां विसंवादिनां ज्ञानानां । तत्प्रसंगतः प्रमाणताप्रसंगात् । तत्र प्रमाणेतरव्यवस्थानिबंधनत्वान्यवहारो नयोऽ न्यथा तदाभास इत्यर्थः ॥ . अथ ऋजुसूत्रनयं साभासं प्ररूपयतिभेदं प्राधान्यतोऽन्विच्छन् ऋजुसूत्रनयो मतः। सर्वथैकत्वविक्षेपी तदाभासस्त्वलौकिकः ॥२१॥ मतः इष्टः । कः ऋजुसूत्रनयः । किं कुर्वन् अन्विच्छन् अभिप्रेयन् । कं भेदं पर्यायं । कुतः प्राधान्यतः मुख्यत्वेन । अनेन गौणत्वेन द्रव्यमप्यपेक्षत इत्यर्थः । तु पुनस्तदाभासो भवति । किंविशिष्टः एकत्वविक्षेपी एकत्वं द्रव्यं विक्षिपति निराकरोतीत्येवंशील एकत्वविक्षेपी । कथं सर्वथा प्राधान्यतोऽप्रधान्यतश्च । पुनः किंविशिष्टः अलौकिकः लोको व्यवहारस्तत्प्रयोजनो लौकिकस्तद्विपर्ययोऽ लौकिकः अलौकिकादित्यर्थः । न हि परस्परं सजातीयविजातीयव्यावृत्ताः प्रतिक्षणविशरारवः परमाणवो व्यवस्-ि यंते परीक्षकैः यतस्तद्विषयो नयाभासो न स्यात् ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy