SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० भट्टाकलंकप्रणीतं गुणश्च प्रधानं च तयोर्भावो मुख्यामुख्यता तेन । क एकधर्मिणि एकोऽभिन्नो धर्मी द्रव्यं तस्मिन् । तदाकृतिःतस्य नैगमस्याकृतिराभासः स्यात् । का अत्यंतभेदोक्तिः अत्यंतो निरपेक्षो भेदो नानात्वं तस्योक्तिर्वचनं नैयायिकाद्यभिप्रायो नैगमाभास इत्यर्थः ॥ अथ संग्रहतदाभासावाह--- सदभेदात्समस्तैक्यसंग्रहात्संग्रहो नयः । दुर्नयो ब्रह्मवादः स्यात्तत्स्वरूपानवाप्तितः १९ स्यात्कः संग्रहो नयः । कस्मात्समस्तैक्यसंग्रहात् समस्तस्यं जीवाजीवविशेषस्यैक्येन एकत्वेन संग्रहात् संक्षिप्य ग्रहणात । कथमनेकस्य संक्षेपणमित्याशंक्याह -- सदभेदात् । सत् सत्वसामान्यं तच्चासावभेदश्च तमाश्रित्य । न हि सत्वात् किंचिद्भिन्नमस्तीति वक्तुं युक्तं विरोधात् । दुर्नयः संग्रहाभासः । स्यात् । कः ब्रह्मवादः सत्ताद्वैतं । कुतः तत्स्वरूपानवाप्तितः । तस्य परपरिकल्पितब्रह्मणः स्वरूपं भेदप्रपंचशून्यं सन्मात्रं तस्यानवाप्तिः प्रमाणादप्राप्तिस्ततः । न खलु प्रत्यक्षादिप्रमाणात् प्राप्यते तथाऽप्रतीतेः ॥ अथ व्यवहारनयं निरूपयति व्यवहारानुकूल्यात्तु प्रमाणानां प्रमाणता || नान्यथा बाध्यमानानां ज्ञानानां तत्प्रसंगतः २० For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy