________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
८९
र्थतासामान्यं पूर्वापरपर्यायव्यापकं सदृशपरिणामलक्षणं तिर्यक्सामान्यमन्वयानुगं । पुनः किंविशिष्टं निश्चयात्मकं निर्गतश्व यः पर्यायांतरसंकरो यस्मादसौ निश्चयः पर्यायः स आत्मा यस्य तत्तथोक्तं । अपि पुनरन्यः पर्यायो विशेषो भवति । किंविशिष्टः व्यतिरेक पृथक्त्वगः । व्यतिरेकश्च पृथक्त्वं च ते गच्छति तादात्म्येन परिणमतीति स तथोक्तः । तत्र व्यतिरेकः एकस्मिन्द्रव्ये क्रमभाविपर्यायः । पृथक्त्वगः पुनरर्थांतरगतो विसदृशपरिणामः । ननु निश्चयव्यवहारौ नयौ शास्त्रांतरे प्रतिपादितौ तयोः किमालंबनमित्याशंक्याह - तु पुनर्निश्चयव्यवहारौ मूलनयौ आश्रितौ आलंबितवंतौ । किं द्रव्यपर्यायं । द्रव्यं च पर्यायश्च तयोः समाहारद्वंद्वे एकत्वनवे । द्रव्यं श्रितो निश्चयनयो द्रव्यार्थिक इत्यर्थः । पर्यायाश्रितो व्यवहारनयः पर्यायार्थिक इत्यर्थः ॥
अथ नैगमादीन् प्रागुक्तानपि मंदमतिशिष्यानुग्रहार्थं पुनर्वक्तुकामस्तावन्नैगमतदाभासौ निरूपयति-
गुणप्रधानभावेन धर्मयोरेकधर्मिणि ॥ विवक्षा नैगमोऽत्यंत भेदोक्तिः स्यात्तदाकृतिः १८
स्यात् । कः नैगमो नयः । का विवक्षा अभिप्रायः । कयोः धर्मयोः एकत्वानेकत्वयोः । केन गुणप्रधानभावेन
For Private And Personal Use Only