________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं भिप्रेतमात्रस्य वक्तुः प्रयोजकस्याभिप्रेतमभिप्रायो विवक्षा तावन्मात्रस्यैव न बहिरर्थस्येति । नुः अहो आश्चर्यमित्याक्षेपो गम्यते । सामान्यविशेषात्मनो बहिरर्थस्य शब्दप्रयोगात्पतीतेस्तस्यैव तदर्थत्वात् । अभिप्रायस्य ततः स्वप्ने ऽप्यप्रतीतेः । यतो यत्र विषये प्रतीतिप्रवृत्तिप्राप्तयः समनुभूयते स तस्यार्थ इति न्यायात् ।।
अथेदानी नयभेदानाह-- श्रुतभेदा नयाः सप्त नैगमादिप्रभेदतः॥ . द्रव्यपर्यायमूलास्ते द्रव्यमेकान्वयानुगं ॥१६॥ निश्चयात्मकमन्योऽपि व्यतिरेकापृथक्त्वगः ॥ निश्चयव्यवहारौ तु द्रव्यपर्यायमाश्रितौ ॥१७॥
ते प्रागुक्तलक्षणा नया भवंति । के ते श्रुतस्य सकलादेशस्यागमस्य भेदा विकल्पा विकलादेशाः । कति सप्त । कुतः नैगमादिप्रभेदतः । नैगम आदिर्येषां संग्रहादीनां ते नैगमादयस्ते च ते प्रभेदाश्च विशेषास्तानाश्रित्य । किं विशिष्टाः द्रव्यपर्यायमूलाः द्रव्यं च पर्यायश्च द्रव्यपर्यायौ मूले विषयौ येषां ते तथोक्ताः । तत्र द्रव्यस्य स्वरूपमाह-द्रव्यं सामान्यं भवति । किंविशिष्टं एकान्वयानुगं एकं चान्वयश्च एकान्वयौ तावनुगच्छति व्यामोतीत्येकान्वयानुगं तत्रैकानुगम
For Private And Personal Use Only