________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. वर्णाः पदानि वाक्यानि प्राहुरर्थानवांछितान् ॥ वांछिताँश्च क्वचिन्नेति प्रसिद्धिरियमीदृशी ॥१४॥ स्वेच्छया तामतिक्रम्य वदतामेव युज्यते ॥ वक्तभिप्रेतमात्रस्य सूचकं वचनं न्विति ॥१५॥ __ प्राहुरभिदधति । के वर्णाः अक्षराणि गकारादीनि । तथा पदानि गवादीनि । तथा वाक्यानि च गामानयेत्यादीनि । कान् अर्थान् अभिधेयान् । किंविशिष्टान् अवांछितान् अविवक्षितान् भूम्यादीन् । वांछिताँश्च विव. क्षितानपि सास्नादिमदादीन् । क्वचिन्मंदबुद्धिषु प्रतिपाद्येषु । न प्राहुस्तेषां ततोऽर्थाधिगमाभावात् । इत्येवंप्रकारा इयं सर्वजनप्रतीता प्रसिद्धि रूढिः । ईदृशी विचित्रा व्यवहारिभिरम्युपगंतव्या तथैवार्थक्रियोपपत्तेः । तत्र वर्णाः स्वरव्यंजनरूपाश्चतुःषष्टिः । वर्णानां परस्परापेक्षाणां निरपेक्षः समुदायः पदं अव्ययानव्ययमेदभिन्नं । तत्रानव्ययं द्विधा सुबतं तिङतं चेति । अव्ययमनेकधा तसादिभेदात् । पदानां परस्परापेक्षाणां निरपेक्षः समुदायो वाक्यं । तत्त्रेधा क्रियाप्रधानं कारकप्रधानमुभयात्मकं चेति । तां प्रसिद्धिमतिक्रम्यैव उल्लंघ्यैव । स्वेच्छया स्वैरभावन । वदतां कथयतां सौगतानां । युज्यते युक्तं भवतीति अधिक्षेपवचमं । कथं शब्दः सूचकं वाचकं । कस्य वक्त्र
For Private And Personal Use Only