________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं
प्रतीयतेऽधिगम्यते । कः स्यात्कारः स्यादिति पदमव्ययं । क सर्वत्र शास्त्रे लोके वा। कस्मिन्विषये विधौ सत्त्वादौ साध्ये । न केवलं विधौ किंतु निषेधेऽपि असत्त्वादावपि साध्ये । अन्यत्रापि अन्यस्मिन्ननुवादातिदेशादावपि । किंविशिष्टोऽपि अप्रयुक्तोऽपि स्यादस्ति जीव इत्यनुक्तोऽपि । तर्हि कुतः प्रतीयते इति चेदाह- अर्थात् सामर्थ्यात् । तथाहि सम्यग्दर्शनादित्रयात्मकत्वे मार्गस्य कथमेकत्वमेकत्वे वा कथं त्रित्वमिति विरोधस्य कथंचिदित्येव परिहारो न सर्वथेति । द्रव्यपर्यायापेक्षया मार्गस्यैकानेकत्वाविरोधात् । ततः कथंचिदित्यर्थसामर्थ्यात् तद्वाचकः स्यात्कारोऽप्रयुक्तोऽपि प्रतीयत एव । चेद्यदि । कुशलः स्यात् व्यवहारे प्रबुद्धः स्यात् । कः प्रयोजकः प्रतिपादकः । तथा एवकारोऽपि प्रतीयते । तत एव रत्नत्रयात्मक एव मोक्षमार्ग इत्यवधारणाभावे सम्यग्दर्शनमेव मार्गः प्रसज्येत, अन्यदेव वा द्वयमेव वेत्यतिप्रसंगस्य दुर्निवारत्वात् । न चैवमसाधारणस्वरूपस्यैव लक्षणत्वात् । नन्वेवमप्रयुक्तयोरपि स्यात्कारैवकारयोरर्थतः प्रतीतौ क्वचित्किमिति कैश्चित्प्रयुज्येते इति चेन्न । प्रतिपाद्याशयवशात्तत्प्रयोगोपपत्तेः ॥
ननु वर्णपदवाक्यात्मकस्य शब्दस्य विवक्षाविषयत्वात्कथमर्थात्स्यात्कारः प्रतीयत इत्याशंक्याह
For Private And Personal Use Only