SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. रान्नयहेतोर्वचनस्यापि नयत्वाविरोधात् । श्रुतज्ञानस्य हेतोर्वचनस्य श्रुतव्यपदेशवचनवत् । तथाहि स्याज्जीव एव ज्ञानाद्यनेकांत इति प्रमाणवाक्यं । स्यादस्त्येव जीव इति नयवाक्यं च सप्तभंग्या प्रतिष्ठितं । स्यादस्त्येव जीवः खद्रव्यक्षेत्रकालभावविवक्षया । स्यान्नास्त्येव जीवः परद्रव्यक्षेत्रकालभावविवक्षया । स्यादस्तिनास्त्येव जीवः खपरद्रव्यक्षेत्रकालभावक्रमविवशया । स्यादवक्तव्य एव जीवः युगपत्स्वपरद्रव्यक्षेत्रकालभावविवक्षया । स्यादस्त्यवक्तव्य एव जीवः स्वद्रव्यादिविवक्षया सह युगपत्स्वपरद्रव्यक्षेत्रकालभावविवक्षया । स्यान्नास्त्यवक्तव्य एव जीवः परद्रव्यादिविवक्षया सह युगपत्वपरद्रव्यक्षेत्रकालभावविवक्षया । स्यादस्तिनास्त्यवक्तव्य एव जीवः क्रमेण स्वपरद्रव्यादिविवक्षया सह युगपत्स्वपरद्रव्योत्रकालभावविवक्षयेति दृष्टेष्टाविरोधेन विधिप्रतिषेधद्वारेण सप्तभंगीकल्पनायाः सर्वत्र संभवात् । एवमेकानेकनित्यानित्यभेदाभेदादावपि योज्यं ॥ ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इत्यादिवाक्येषु शास्त्रे लोके वा स्यात्कारः किमिति न प्रयुज्यते यतोऽनेकांतः सर्वत्र वाक्यार्थः स्यादित्याक्षेषे इदमाह अप्रयुक्तेऽपि सर्वत्र स्यात्कारोऽर्थात्प्रतीयते ॥ विधौ निषेधेऽप्यन्यत्र कुशलश्चत्प्रयोजकः १३ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy