________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
भेट्टाकलंकप्रणीतं स्याद्वादः । नयनं वस्तुनो विवक्षितधर्मप्रापणं नयः । स्याद्वादश्च नयश्च स्याद्वादनयौ । इत्थं संज्ञे व्यपदेशौ संजाते ययोस्तौ तथोक्तौ। तौ लक्षणतो निर्दिशति-स्याद्वाद उच्यते । कः सकलादेशः सकलस्यानेकधर्मणो वस्तुन आदेशः कथनं । यथा जीवपुद्गलधर्माधर्माकाशकालाः षडाः । तत्र ज्ञानदर्शनसुखवीर्यैरसाधारणैर्धमः सर्वत्र प्रमेयत्वागुरुलधुत्वधर्मित्वगुणित्वादिभिः साधारणैर्मूर्तत्वसूक्ष्मत्वासंख्यातप्रदेशत्वादिभिश्च साधारणासाधारणैरनेकांतात्मको जीवः, पुद्गलः पुनः स्पर्शरसगंधवर्णैरसाधारणैः सत्त्वादिभिः साधारणैरचेतनत्वमूतत्वादिभिः साधारणासाधारणैश्चानेकांतात्मकः । धर्मश्च गतिहेतुत्वेनासाधारणेन सत्त्वादिभिः साधारणैरचेतनत्वादिभिरुभयैरप्यनेकांतात्मकः । स्थितिहेतुत्वेनासाधारणेन सत्त्वादिभिः साधारणैरमूर्तत्वादिभिश्च साधारणासाधारणैरधर्मोऽनेकांतात्मकः । अवगाहनेनासाधारणेन सत्त्वादिभिः साधारणैरमूर्तत्वादिभिर्द्वयैरप्याकाशमनेकांतात्मकं । वर्तनयाऽसाधारण्या सत्त्वादिभिः साधारणैरमूर्तत्वादिभिः साधारणासाधारणैश्च कालोऽनेकांतात्मकः । उत्पादव्ययध्रौव्ययुक्तं सदिति वा प्रतिपादनं । पुनर्नयो भवति । का विकलसंकथा । विकलस्य विवक्षितैकधर्मस्य सम्यक्प्रतिपक्षापेक्षया कथा प्रतिपादनं, यथा जीवो ज्ञातैव द्रष्टव्य इत्यादि । ननु ज्ञातुरभिप्रायो नय इत्युक्तं प्राक् इदानीं पुनर्वचनात्मको नयः किमित्युच्यते इति चेत् उपचा'
For Private And Personal Use Only